स्त्रीपुंधर्म्मः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्त्रीपुंधर्म्मः, पुं, (स्त्री च पुमांश्च स्त्रीपुंसौ । तयो- र्धर्म्मः ।) स्त्रीपुंसयोर्व्यवहारः । स च अष्टा- दशविवादपदान्तर्गतविवादविशेषः । यथा, -- “स्त्रीपुंधर्म्मो विभागश्च द्यूतमाह्वयमेव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥” इति मानवे ८ अध्यायः ॥ तद्विवरणं यथा, -- “पुरुषस्य स्त्रियाश्चैव धर्म्मे वर्त्मनि तिष्ठतोः । संयोगे विप्रयोगे च धर्म्मान् वक्ष्यामि शाश्वतान् अस्वतन्त्राः स्त्रियः कार्य्याः पुरुषैः स्वैर्दिवानिशम् ॥ विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥ पिता रक्षति कौमारे भर्त्ता रक्षति यौवने । रक्षन्ति स्थविरे पुत्त्रा न स्त्री स्वातन्त्र्यमर्हति ॥ कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः मृते भर्त्तरि पुत्त्रस्तु वाच्यो मातुररक्षिता ॥ सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ॥ इमं हि सर्व्ववर्णानां पश्यन्तो धर्म्ममुत्तमम् । यतन्ते रक्षितुं भार्य्यां भर्त्तारो दुर्ब्बला अपि ॥ स्वां प्रसूतिं चरित्रञ्च कुलमात्मानमेव च । स्वञ्च धर्म्मं प्रयत्ने न जायां रक्षन् हि रक्षति ॥ पतिर्भार्य्यां संप्रविश्य गर्भो भूत्वेह जायते । जायायास्तद्धि जायात्वं यदस्यां जायते पुनः ॥ यादृशं भजते हि स्त्री सुतं सूते तथाविधम् । तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत् प्रयत्नतः ॥ न कश्चित् योषितः शक्तः प्रसह्य परिरक्षितुम् । एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥ अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् । शौचे धर्म्मेऽन्नपक्त्याञ्च पारिणाह्यस्य वेक्षणे ॥ अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः । आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥ पानं दुर्ज्जनसंसर्गः पत्या च विरहोऽटनम् । स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥ नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥ पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः । रक्षिता यत्नतोऽपीह भर्त्तृष्वे ता विकुर्व्वते ॥ एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेत् पुरुषो रक्षणं प्रति ॥ शय्यासनामलङ्कारं कामं क्रोधमनार्ज्जवम् । द्रोहभावं कुचर्य्याञ्च स्त्रीभ्यो मनुरकल्पयत् ॥ नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्म्मो व्यवस्थितः निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि । स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ॥ यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता । तन्मे रेतः पिता वृक्तामित्यस्यैतन्निदर्शनम् ॥ ध्यायत्यनिष्टं यत्किञ्चित् पाणिग्राहस्य चेतसा प्रजनार्थं स्त्रियः सृष्टाः सन्तानार्थञ्च मानवाः । तस्मात् साधारणो धर्म्मः श्रुतौ पत्न्या सहोदितः ॥ कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः । देवराय प्रदातव्या यदि कन्यानुमन्यते ॥ आददीत न शूद्रोऽपि शुल्कं दुहितरं ददत् । शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥ एतत्तु न परे चक्रुर्न्नापरे जातु साधवः । यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥ नानुशुश्रुम जात्वेतत् पूर्व्वेष्वपि हि जन्मसु । शुल्कसंज्ञं न मूल्येन छन्नं दुहितृविक्रयम् ॥ अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः । एष धर्म्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥ तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ । यथा नाभिचरेतां तौ वियुक्तावितरेतरम् ॥ एष स्त्रीपुंसयोरुक्तो धर्म्मो वो रतिसंहितः । आपद्यपत्यप्राप्तिश्च दायभागं निबोधत ॥” इति मानवे ९ अध्यायः ॥
