स्त्रीरोगः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्त्रीरोगः, पुं, (स्त्रिया रोगः ।) नारीणामामयः । तस्य चिकित्सा यथा, -- धन्वन्तरिरुवाच । “स्त्रीरोगादिचिकित्सान्तु वक्ष्ये सुश्रुत तां शृणु यौनिव्यापत्सु भूयिष्ठं शस्यते कर्म्म वातजित् ॥ वचोपकुञ्चिकाजातीकृष्णावृषकसैन्धवम् । अजमोदा यवक्षारं चित्रकं शर्करान्वितम् ॥ पिष्ट्वालोड्य जलाद्यैश्च खादयेद्घृतभर्ज्जितम् । योनिपार्श्वार्त्ति हृद्रोगगुल्मार्शोविनिवृत्तये ॥ बदरीपत्रसंलेपात् योनिर्भिन्ना प्रशाम्यति । लोध्रं तुम्बीफलालेपो योनिदाट्यं करोति च ॥ पञ्चपल्लवशट्यकमालतीकुसुमैर्घृतम् । रविपक्वमसृग्धारा योनिगन्धविनाशनम् ॥” असृग्धारास्थाने असृग्वाधा इति च पाठः । “सकाञ्जिकं जवापुष्पं प्लुष्टं ज्योतीष्मतीदलम् दूर्व्वापिष्टञ्च संप्राश्य वनिता नार्त्तवं लभेत् ॥ धात्र्यञ्जनाभयाचूर्णं तोयपीतं यदा भवेत् ।” यदा भवेदित्यत्र रजो हरेदिति च पाठः । “सदुग्धा लक्ष्णणा पीता न स्याद्वा पुत्त्रदा हृयतौ दुग्धस्यार्द्धाढकं चाक्षमश्वगन्धा च पुत्त्रदा । बन्ध्या पुत्त्रं लभेत् पीत्वा घृतेन व्योषकेशरम् ॥ कुशकाशोरुवूकाणां मूलैर्गोक्षुरकस्य च । दुग्धञ्चैव सितायुक्तं गर्भिण्याः शूलनुत्परम् ॥ पाठालाङ्गलिसिंहास्यमयूरकुटजैः पृथक् । नाभिवस्तिभगालेपात् सुखं नारी प्रसूयते ॥ सूताया हृच्छिरोवस्तिशूलं वै मन्दसंज्ञितम् । यवक्षारं पिबेत्तत्र मस्तुनोष्णोदकेन वा ॥ कुशमूलीकृतः क्वाथः साज्यः सूतिरुजापहः । शालितण्डुलचूर्णन्तु सदुग्धं दुग्धकृद्भवेत् ॥ विदारिकुसुमरसं मूलं कार्पासजं तथा । धात्री स्तन्यविशुद्ध्यथं मुद्गयूषरसायनी ॥ कुष्ठा वचाभया ब्राह्मी मधुरी क्षौद्रसर्पिषी । वर्णायुःकान्तिजननं लेहं बाले प्रदापयेत् ॥ स्तन्याभावे पयश्छाग्यं गव्यं वा तद्गुणं भवेत् मुस्तशुण्ठीविषा बाला कुटजा चातिसारनुत् ॥ व्योषं मधु मातुलुङ्गं हिक्काच्छर्द्दिनिवारणम् । कुष्ठेन्द्रयवसिद्धार्थनिशा दूर्व्वा च कुष्ठजित् ॥ सप्तच्छदामयनिशाचन्दनैश्चानुलेपनम् । शङ्खाब्जबीजरुद्राक्षवचालोहादिधारणम् ॥” इति गारुडे । १७६ । १ -- १९ ॥
