सामग्री पर जाएँ

स्त्रीसग्रहण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्त्रीसग्रहण¦ न॰ स्त्रियाः सग्रहणं यत्र। परस्त्रीहरणरूपेविवादपदमेदे। तत्स्वरूपादिक वोरमि॰ दर्शितं यथा
“अथ स्त्रीसंग्रहणाख्य व्यवहारपदम्। तस्य त्रैवि-व्यमाह वृहस्पतिः
“पापमूलं संग्रहणं त्रिप्रकारं[Page5349-a+ 38] निथोघत। बलोपधिकृते द्वे तु तृतीयमनुरागजम्” इति। एतेषां स्वरूपं दर्शयति स एव
“अनिच्छन्त्यायत् क्रियत मत्तोन्मत्तप्रमत्तेया। विलपन्त्या वा रहसिबलात्कारकृतन्तु तत्। छद्मना गृहमानीय दत्त्वा स्वंमदकारणम्। संयोगः क्रियते यत्र तचूपधिकृतंविदुः। अन्योन्यञ्चक्षूरागेण दूतीसंप्रेषणेन वा। कृतंरूपार्थलोभेन ज्ञेयं तदनुरागजम्” इति। अनुरागजसंग्रहस्य त्रिविधत्वं दर्शयति स एव
“तत्पुनस्त्रि-विधं प्रोक्तं प्रथमं मध्यमोत्तमम्” इति। व्यासोऽपि
“संग्रहस्त्रिविधोज्ञेयः प्रथमोमध्यमस्तथा। उत्तमश्चेतिशास्त्रेषु लक्षणं च पृथक् पृथक” इति। एतेषां स्वरूप-माहतुर्व्यासवृहस्पती
“कटाक्षावेक्षणं हास्यं दूतीसंप्रेषणंतथा। स्पर्शोभषणवस्त्राणां प्रथमः संग्रहः स्मृतः। प्रे-षणं गन्धमाल्यानां फलधूपान्नवाससाम्। सम्भाषणञ्चरहसि मध्यमं संग्रहं विदुः। एकशय्यासनं क्रीडाचुम्बनालिङ्गनं तथा। एतत् संग्रहणं प्रोक्तमुत्तमंशास्त्रवेदिभिः” इति। स्त्रीसंग्रहणस्य ज्ञानोपायमाहयाज्ञवल्क्यः
“पुमान् संग्रहणे ग्राह्यः केशाकेशिपरस्त्रिया। सद्यो वा कामजैश्चिह्नैः प्रतिपत्तौ द्वयो-स्तथा” इति। परभार्यया सद केशाकेशि क्रीडनेनसद्यः अभिनवैः कामजैः कररुहदशनादिकृतव्रणा-दिलिङ्गैर्द्वयोः सम्प्रतिपत्तावयं स्त्रीसग्रहणवान्इति प्रतिपत्तव्य इत्यर्थः। उपायान्तरमाह स एव
“नीवीस्तनप्रावरणसक्थिकेशावमर्शनम्। अदेशकालसम्भाषः सहैकस्थानमेव च” इति। कुर्वाण इति शेषःसक्थि ऊरुः। मनुरपि
“स्त्रियं स्पृशेददेशे यः स्पृष्टोवा मर्षयेत् तया। परस्परस्यानुमते सर्वं संग्रहणंस्मृतम्”। यस्तु दर्पादिना मयेयं भुक्तेति वदति सोऽपितथाविघत्वेन ग्राह्य इत्याहतुर्मनुनारदौ
“दर्पाद्वायदि वा मोहात् श्लाघया वा स्वयं वदेत्। पूर्वं मयेयंभुक्तेति तच्च संग्रहणं स्मृतम्” इति। बलात्कारकृतस्यस्त्रीसंग्रहणस्य साहसान्तर्भूतत्वेन तत्रैव दर्शितत्वादुप-धिकृत दण्डमाह वृहम्पतिः
“दर्पान्ना कामयेद्यस्तु तस्यसर्वहरोदमः। अङ्कयित्वा भगाङ्केन पुरान्निर्वासये-त्ततः” इति। सर्वहरः सर्वस्वहरः एतत् सजातीयविषयम्। हीनोतकृष्टागमने तु क्रमेणार्द्धं धनं सर्वस्व-हरणरूपो बधसहितसर्वस्वहरणरूपो व्य दण्डाऽवग-न्तव्यः।
“दमानेयः समायान्त्रिति” साहगवादनिरूपण-[Page5349-b+ 38] दर्शितवचनात्। तत्र वचने पुरुषस्यापकर्षाभावे युकोदण्डा न स्त्रिया इति नोक्तस्तस्याः दण्डः तेन साधसस्त्रासंग्रहणवत् प्रकृतऽपि सजातीयापभुक्तायाः सव्यव-हार्य्याव्याः प्रायश्चित्ताचरणानन्तरं पुनरपि तेनोपभुक्तायाइति ज्ञातव्यमित्युक्तं मदनरत्ने। अनुरागजत्रिविघसग्रहणे दण्डमाहा स एव
“त्रयाणामपि चैतेषां प्रथमोमध्यमोत्तमौ। विनयः कल्पनीयः स्यादाधकोद्रदिणा-धिकः” इति। अधिकः प्रथमसाहसादिभ्याऽधिकः। सम्भोगे दण्डमाह याज्ञवल्क्यः
“स्वजातावुत्तमोदण्ड आनुलोम्ये तु मध्यमः। प्रातिलोम्ये बधः पुंमोनार्याः” कर्णादिकर्त्तनम्” इति। चतुर्णामपि वर्णानांबलात्कारेण सजातोयपरभार्यावमने साशीतिपणस-हस्नो दण्डः। यदा त्वानुलोम्येन हीनजातीयागमनंतदा मध्यममाहसः। उतकृष्टजातीयागमने गन्तुर्बधः। तस्याः कर्णादिकर्त्तनमित्यर्थः। एतच्चानुरागजग्रहण-विषयं स्त्रिया अपि दण्डाभिधानात्। वलात्कारोप-धिकृतयोस्तु स्त्रिया अनपराधत्वेन दण्डाभावात्। अस्मादेव प्रातिलोम्येन गमने पुरुषस्य बघं विधाय स्त्रि-यास्तदर्द्धतुल्यकर्णनासादिकर्त्तनविधानात् सजाती-यागमने पुरुषस्य यावुक्तावुत्तममध्यभसाहसौ दण्डौतदर्द्धं स्त्रियादण्ड इति सूचितम्। अतएव कात्या-यनः
“सर्वेषु चापराधेषु पुंसोह्यर्थदमस्तथा। तदर्द्धंयोषिता दद्युर्बधे पु सोऽङ्गकर्त्तनम्”। इति। स्त्रियाइति शेषः। यदा पुनः सवर्णामगुप्तां आनुलोम्येनगुप्तां वा व्रजति तदा विशेषमाह मनुः
“सहस्रं व्राह्मणोदण्ड्योऽगुप्तां विप्रां बलाद् व्रजन्। शतानि पञ्च दण्ड्यःस्यादिच्छन्त्या संह सङ्गतः। सहस्रं ब्रह्मणी दण्डंदाप्यो गुप्ते तु ते व्रजन्। शूद्रायां क्षत्रयविशोःसहस्रन्तु भवेद्दमः” इति। ते क्षत्रियवैश्ये। एतच्चगुरुसखिभार्य्यादिव्यातिरिक्तविषयम्। तत्र दण्डान्तर-विधानात्। तदाह नारदः
“माता मातृष्वसा श्वश्रू-र्मातुलानी पितृष्वसा। पिवव्यसखिशिष्यस्त्री भगिनीतत्सखी स्नुषा। दुहिता चार्यभार्य्या च सगोत्रा शर-णागता। राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा चया। शिश्नस्योत्कर्त्तनात्तत्र नान्योदण्डो विधीयते” इति। यत्तु प्रातिलोम्येन गमने क्षत्रियादेः पुरुषस्यवध इत्युक्तं योगोश्वरवचने। तद्गुप्ताविषयमन्यथा-ऽर्थदण्डः। तथा च मनुः
“उभावपि हि तावेव ब्रा-[Page5350-a+ 38] ह्मण्या गुप्तया सह। विप्लुतौ शृद्रवद्दण्ड्यौ दग्धव्यौवा कटाग्निना। ब्रह्मणीं यद्यगुप्तान्तु सेवेतां वैश्यपार्थिवौ। वैश्यम्पञ्चशत कुर्य्यात् क्षात्रयन्तु सहस्निणम्” इति। पञ्चशतम्पणशतपञ्चकदण्डभाजमित्यर्थः। एवसहस्रिणमित्यत्रापि। क्षत्रियस्य गुप्तवैश्यागमने वैश्यम्यच गुप्तक्षत्रियागमने क्रमेण पणसहस्रपणशतपञ्चकंतयोर्दण्ड इत्याह स एव
“वैश्यश्चेत् क्षत्रियाङ्गुप्तांवैश्यां वा क्षत्रियो व्रजेत्। यो ब्राह्मण्यामगुप्तायान्तावुभौ दण्डमहेतः” इति। शूद्रस्यागुप्तोत्कृष्टस्त्रीगमनेलिङ्गच्छेदनसर्वस्वापहरणे गुप्तागमने तु बधसर्वस्वापहारौ। तथा च स एव
“शूद्रो गुप्तमगुप्तं वा द्वैजातंवर्णमाचरन्। अगुप्तैकाङ्गसर्वस्वो गुप्तौ सर्वेण हीयते” इति। अयञ्च बधाद्युपदेशः प्रजापालनाधिकाराद्राज्ञएव न द्विजातिमात्रस्य।
“व्राह्मणः परीक्षार्थमपि शस्त्रंनाददीतेति” शस्त्रग्रहणस्य निषिद्धत्वात्। यदा तु राज्ञोनिवेदने कालविलम्बेन कार्य्यातिपातस्तदा द्विजा-तिमात्रस्यापि शस्त्रग्रहणेऽधिकारोऽस्त्येव
“शस्त्रंद्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते। नातता-यिबधे दोषो हन्तुर्भवति कश्चन। प्रच्छन्नं वाप्रकाशं वा मन्युस्त मन्युमृच्छति” इति शस्त्रग्रहणाभ्यनुज्ञानात्। परस्त्रिया सह सम्भषणकर्तुर्दण्डमाह मनुः
“परस्य पत्न्या पुरुषः संलापंयोजयेत् सूह। पूर्वमाक्षारितो दोषैः प्राप्नुयात् पूर्व-साहसम्” इति। आक्षारितः अभिशस्तः। दोर्षःनानास्त्युपमोगवाञ्छाभिः। पापबुद्ध्या यः सम्भाषणंकरोति तद्विषयमेतत्। अतएव
“यस्त्वनाक्षारितःपर्वमभिभाषेत कारणात्। न दोषं प्राप्नुयात् किञ्चिन्नहि तस्य व्यतिक्रमः” इति। मनुवृहस्पत्युक्तपूर्वसाहसमध्यमसाहसयोरुत्कृष्टसजातीयासम्भाषणादिविषयत्वेनव्यवस्था परिकल्पनीया। परपुरुषेण सह पित्रादिभिःर्निषिद्धं सम्भाषणं या करोति सा पणशतं दण्ड्यापरस्त्रिया सह पित्रादिभिर्निषिद्धसम्भाषणं यः पुरुषःकरोति पणशतद्वयं दण्डनीयः। द्वयोरपि निषिद्ध-परस्परसम्भाषणादि कुर्वतोः सम्भोगे यो दण्डः सएव दण्ड इत्याह याज्ञवल्क्यः
“स्त्री निषेधे शतं ष्टद्याद्द्विशतन्तु दमं पुमान्। प्रतिषेधे तयोर्दण्डो यथा सङ्ग्रहणे तथा” इति। निषिध्यत इति निषेधः कर्भणिहलश्चेति घञ्। चारणादिस्त्रीव्यतिरिक्तविपयमेतत्[Page5350-b+ 38]
“नैष चारणदरेर्षु विधिर्नात्मोपजीविषु। सज्जयन्तिहि ते नारीर्निगूढाश्चारयन्ति च” इति मनुस्मरणात्नटाः आत्मोपजीविनः वेशोपजीविनः। एतेषा दारषुएष विधिन अभिभाषणादिनिमित्तकदण्डविधिर्न। परनरे नारीः स्वभार्य्याः सज्जयन्ति पुरुषान्तरे संयोजन्तिप्रच्छन्नीकृत्य चारयन्ति वेत्यर्थः। माधारणस्त्रीगमनेदण्डमाह याज्ञवल्क्यः
“अवरुद्वासु दासीषु भुजिष्यासुतथैव च। गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकन्दमम्” इति। स्वामिना या शुश्रूषार्थं गृहे एव स्थातव्य-मित्येव पुरुषान्तरोपभागतो निरुद्धास्ताः अवरुद्धाः। पुरुषान्तरेणावरुध्य भुज्यमाना भुजजिष्याः या दास्योभुजिष्या अवरुद्धा वा तासु सर्वपुरुषगम्यास्वपि गमनेपञ्चाशत्पणं दण्ड्यः तामाम्परपरिगृहीतत्वेन परस्त्री-तुल्यत्वात्। चशब्दाद्वेश्यास्वरिणीनामपि ग्रहणम्। तास्वपि सर्वपुरुषसाधारणीसु परपरिगृहीतासु गमने-ऽयमेव दण्ड इति मन्तव्यम् एतदवाभिप्रेत्याह नारदो-ऽपि
“स्वैरिण्डब्राह्मणी वेश्या दासौ निष्कासिनी चया। गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः। आस्वेव तु भुजिष्यासु दोषः म्यात्पादारवत्। गम्या-स्वपि हि नोपेयाद्यत्ताः परपरिग्रहाः” इति। अब्राह्म-णीति स्वैरिण्या{??}शेषणम्। स्वैरिणो स्वतन्त्रा पुंश्चली। निष्कासिनी कुटुम्बान्निर्गतेति मदनरत्ने। स्वाम्यनवरुद्धादासीति विज्ञानेश्वरमाधवाचार्य्यप्रभृतयः। भुजिष्यास्वा स्वेति सम्बन्धः। व्यासोऽपि
“परोपरुद्धागमने पञ्चा-शत्पणिको दमः। प्रस्ह्य वेश्यागमने दण्डो दशपणःस्मृतः” इति। प्रमह्य वेतनदानं विना अत्रानवरु-द्धासु पेश्यादिपु गम्यत्वाभिधानन्न पापाभावप्रतिपाद-नार्थं किन्तु राजदण्डाभावप्रतिपादनार्थम्।
“पशु-वेथ्यादिसमने प्राजापत्यं विधीयते” इत्यादिवचनैः प्राय-थित्तस्यरणात्। बलात्कारेण अनवरुद्धदास्यभिगमने दण्ड-माह याज्ञवल्क्यः
“प्रसह्य दास्यभिगमे दण्डो दश-पसः स्मृतः। वहूनां यद्यकामासौ चतुर्विंशतिकःपुथक्” इति। पुरुषसम्भोगजीविकासु दासीषु स्वैरि-ण्यादिषु शुल्कदानमन्तरेण वलात्कारेणामिगच्छतोदशपणो दण्डः। यद्यनिच्छन्तीमेकाम्बलात्कारेण बहवोगवर्वान्त तर्हि प्रत्येकं चतुर्विशतिपणात्मको दण्ड{??}त्त्यर्थः। यदि पुनः सा स्वेच्छया भाटकं गृहीत्वापश्चान्नेच्छति तदा बलाद्व्रजतामपि बहूनामदोषः यदि[Page5351-a+ 38] तस्या व्याध्याद्यभिभवो न भवेत्। अतएव नारदः
“व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा। आम-न्त्रिता चेन्नागच्छेददण्ड्या बडवा स्मृता” इति। पारदार्यप्रसङ्गात् कन्यायामपि दण्डमाह याज्ञवल्क्यः
“अल-ङ्कृतां हरन् कन्यामुत्तमं त्वन्यथाऽधमम्। दण्डंदद्यात् सवर्णासु प्रतिलोम्ये बधः स्मृतः” इति। अल-ङ्कृतां विवाहाभिमुखीं तां सवर्णां कन्यामपहरन् उत्तमसाहसं दण्डनीयः। तदनभिमुखीं हरन् प्रथमसाहसम्। उत्कृष्टवर्णजातां हरतः क्षत्रियादेबध इत्यर्थः। आनुलोम्येन--सकामाहरणे न दण्डस्तथा च सएव
“सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः” इति। कन्यादूषणे दण्डमाह स एव
“दूषणे तु करच्छेद उत्त-मायां ब{??}ः स्मृतः। शतं स्त्रीदूषणे दद्यात् द्वे तु मिथ्या-भिशंसने” इति।
“पशून् गच्छन् शतं दाप्यो हीनांस्त्रीङ्गाञ्च मध्यमम्” इति। यद्यकामां कन्यान्नखक्षता-दिना प्रसह्य दूषयति तदा करच्छेदः। यदा तु अङ्गुलिप्रक्षेपेण तामेव योनिक्षतां कुर्वन् दूषयति तदा विशेष-माह मनुः
“अभिषह्य तु यः कन्यां कुर्य्याद्दर्पेणमानवः। तस्याशु कर्त्त्ये अङ्गुल्यौ दण्डञ्चार्हति षट्शतम” इति। सकामदूषणेऽप्याह स एव
“सकामांदूषयन् कन्यां नाङ्गुलिच्छेदमर्हति। द्विशतं तु दमंदाप्यः प्रसङ्गविनिवृत्तये” इति। यदा कन्या विदग्धावा कन्यां दूषयति तदाप्याह स एव
“कन्यैव कन्यांया कुर्य्यात्तस्यास्तु द्विशतो दमः। या तु कन्यां प्रकुर्य्यात्स्त्री सा सद्यो मौण्ड्यभर्हति। अङ्गुल्योरेव वा छेदःखरेणोद्वहनन्तथा” इति कुर्य्यात् योनिक्षतवतीमितिशेषः। यदा पुनरुत्कृष्टजातीयां कन्यां सकामामकामांवाभिगच्छति तदा हीनस्य क्षत्रियादेर्बधः। यदा सकामांसवर्णामभिगच्छति तदा शुल्कं गोमिथुनं तत्पित्रेदद्यात्। अनिच्छति तस्मिन् दण्डरूपेण राज्ञे दद्यात्। सवर्णामकामाङ्गच्छतो बध एव। तदाह मनुः
“उत्तमांसवमानस्तु जघन्योबर्धमर्हति। शुल्कं दद्यात् सवमानःसमामिच्छेत् पिता यदि। योऽकामां दूषयेत् कन्यां स सद्योवधमर्हति। सकामां दूषयं स्तुल्यो न बधं प्राप्नुयान्नरः” इति। चाण्डाल्यादिगमने दण्डमाह याज्ञवल्क्यः
“अन्त्याभिगमने त्वङ्क्यं कुबर्णेन प्रवासयेत्। शूद्रस्तथान्त्यपव स्यादन्त्यस्यार्यागमे बधः” इति। अन्त्या चा-ण्डाली तद्गमने त्रबर्णिकान् प्रायश्चित्तानभिमुखान्[Page5351-b+ 38]
“सह{??} त्रन्त्यौ।

१ यमिति” मनुवचनानुसारेण पणस-हस्रं दण्डयित्वा कुत्सितवर्णेने भागाकारेणाङ्कयित्वास्वराष्ट्रान्निर्वासयेत् शूद्रः पुनश्चाण्डालीङ्गच्छश्चण्डालएव। अङ्क्य एवेति माधवीये पाठः। चाण्डालस्य तूत्-कृष्टजातिस्त्र्याभिगमने बध एवेत्यर्थः। योनिव्यतिरिक्तस्थले गच्छतो दण्डमाह स एव
“अयोनौ गच्छतोयोषां पुरुषं वाऽभिमेहतः। चतुर्विंशतिको दण्डस्तथाप्रव्रजितागमे” इति। यस्तु योषां मुखादावभिगच्छतिपुरुषं वभिमुखं मेहति तथा प्रव्रजतां वा गच्चहतिअसौ चतुर्विंशतिपणा दण्डनीय इत्यर्थः। स्त्रीकृतेसंग्रहणे दण्डमाह वृहस्पतिः
“गृहमागत्य या नारीप्रलोभ्य स्पर्शनादिना। कामयेत् तत्र सा दण्ड्या नर-स्यार्द्धदमः स्मृत” इति वचसा स्त्रियं प्रलोभ्य गच्छतःपुरुषस्य यो दण्डस्तदर्द्धं दण्ड्या”।

"https://sa.wiktionary.org/w/index.php?title=स्त्रीसग्रहण&oldid=253225" इत्यस्माद् प्रतिप्राप्तम्