स्थण्डिल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्थण्डिलम्, क्ली, (तिष्ठत्यस्मिन्निति । स्था + मिथिला- दयश्चेति इलच्प्रत्ययेन निपातनात् साधु ।) चत्वरम् । इत्यमरः । २ । ७ । १८ ॥ द्वे वेदी- रभितोऽन्यत्र वा यज्ञार्थं परिष्कृतायामनिम्नो- न्नतायां विस्तृतायां भूमौ । असंवाधेन तिष्ठ- न्त्यत्र स्थण्डिलं नाम्नीति डण्डिलः चत्यते निवा- साय याच्यते चत्वरं चते ञ याचे पूर्व्वेण वरः । इति भरतः ॥ यथा च । “यज्ञे परिष्कृतस्थाने स्यातां स्थण्डिलचत्वरे ।” इति शब्दरत्नावली ॥ * ॥ होमनिमित्ताग्निस्थापनार्थं स्थण्डिलविधिर्यथा, वशिष्ठसंहितायाम् । “तस्मात् सम्यक् परीक्ष्यैवं कर्त्तव्यं शुभवेदिकम् । हस्तमात्रं स्थण्डिलं वा संक्षिप्ते होमकर्म्मणि ॥” कुशेन इति सर्व्वत्राभिसम्बध्यते । एवकारेण शाखान्तरोक्तस्य व्यावृत्तिः ॥ * ॥ रेखाणां देवता वर्णांश्चाह स्मृतिः । “प्राग्गता पार्थिवी ज्ञेया चाग्नेयी चाप्युद- ग्गता । प्राजापत्या तथा चैन्द्री सौमी च प्राक्कृता स्मृता ॥ पार्थिवी पीतवर्णा स्यादाग्नेयी लोहिता भवेत् प्राजापत्या भवेत् कृष्णा नीला चैन्द्री प्रकी- र्त्तिता ॥ श्वेतवर्णेन सौमी स्यात् रेखाणां वर्णलक्षणम् ॥” अग्निस्थापनपर्य्यन्तं सव्यहस्तप्रादेशस्य विधान माह । गृह्यासंग्रहः । “सव्यं भूमौ प्रतिष्ठाप्य प्रोल्लिखेद्दक्षिणेन तु । तावन्नोत्थापयेत् पाणिं यावदग्निं निधापयेत् ॥” मानकर्त्तारमाह छन्दोगपरिशिष्टे कात्यायनः । “मानक्रियायामुक्तायामनुक्त्वे मानकर्त्तरि । मानकृद्यजमानः स्याद्विदुषामेष निश्चयः ॥” अङ्गुष्ठाङ्गुलिमानमाह स एव । “अङ्गुष्ठाङ्गुलिमानन्तु यत्र यत्रोपदिश्यते । तत्र तत्र बृहत्पर्व्वग्रन्थिभिर्म्मिनुयात् सदा ॥” यजमानासन्निधौ होमे तु साधारणाङ्गुलि- मानम् । यथा कपिलपञ्चरात्रम् । “अष्टभिस्तैर्भवेज्ज्यैष्ठं मध्यमं सप्तभिर्यवैः । कन्यसं षड्भिरुद्दिष्टमङ्गुलं मुनिसत्तमैः ॥” तैः प्रक्रम्यमाणयवैः । कन्यसं कनिष्ठम् । मानन्तु पार्श्वेन । षड्यवाः पार्श्वसंमिताः । इति कात्य- यनवचनात् । इति संस्कारतत्त्वम् ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्थण्डिल नपुं।
यागार्थं_संस्कृतभूमिः
समानार्थक:स्थण्डिल,चत्वर
2।7।18।1।2
वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे। चषालो यूपकटकः कुम्बा सुगहना वृतिः॥
अवयव : यज्ञवेदिः,यज्ञशालापरितनिबिडवेष्टनम्
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्थण्डिल¦ न॰ स्थल--इलच् नुक् लस्य डः।
१ चत्वरे उन्नत्यव-नतिशून्ये समीकृते प्रदेशे अमरः।
“निषेदुषी स्थण्डिलएव केवले” कुमारः।
२ यज्ञार्थं परिष्कृतस्थाने शब्दर॰[Page5352-a+ 38]
३ होमार्थे कुण्डप्रतिनिधित्वेन वालुकादिभिः कर्त्तव्येमण्डलभेदे च
“नित्यं नेमित्तिकं कर्म स्थण्डिले वासमाचरेत्। हस्तमात्रं तु तत् कुर्य्यात् बालुकाभिःसमन्ततः” शा॰ ति॰।
“अथ वापि मृदा सुवर्णभासा कर-मात्रं चतुरङ्गुलोच्चमल्पे। हवने विदधीत वाङ्गुलोच्चं वि-बुधः स्थण्डिलमेववेदकोणम् कुण्डोद्द्यातः। अथ वाकुण्डकरणाशक्तौ। तन्त्रान्तरे च
“मृदा सुवर्णभासा वासूक्ष्मबालुकयाऽपि वा। अङ्गुलोन्नतया वेदाङ्गुलोच्चं स्थण्डिलंविदुः। चतुःकोणमुदक्प्राचोप्लवमल्पाहुतौ शुभम्। प-ञ्चाङ्गुलोच्चमथ वा रम्यं त्र्यङ्गुलमुन्नतम्। तस्मात् सम्यक्परीक्ष्यैव कर्त्तव्यं शुभवेदिकम्। हस्तमात्रं स्थण्डिलंवा संक्षिप्ते होमकर्मणि”। वसिष्ठः
“कुण्डमेवंविघं नस्यात् स्थण्डिलं वा समाश्रयेत्” क्रियासारे। तत्करण-प्रकारादि सं॰ त॰ दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्थण्डिल¦ n. (-लं)
1. A level square piece of ground, prepared for a sacri- fice.
2. A boundary, a land-mark.
3. A barren field.
4. A heap of clods. E. ष्ठल् to be situated, इलच् aff., नुक् aug.; ल changed to ड |
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्थण्डिलम् [sthaṇḍilam], [स्थल्-इलच् नुक् लस्य डः Tv.]
A piece of ground (levelled, squared and prepared for a sacrifice), an altar; निषेदुषी स्थण्डिल एव केवले Ku.5.12; Bhāg.11.11.45.
A barren field.
A heap of clods.
A limit, boundary.
A land-mark.
A place, ground (as before a house); इह तु स्थण्डिले शीघ्रं कुशानास्तर सारथे Rām.2.111.13. -Comp. -शायिन् m., also -स्थण्डिलेशयः an ascetic who sleeps on the bareSthandila or sacrificial ground; (मुनयः) आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः Rām.3.6.4. -सितकम् an altar.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्थण्डिल n. (of unknown derivation ; accord , to some connected with स्थल्)an open unoccupied piece of ground , bare ground (also with केवल) , an open field MBh. etc.
स्थण्डिल n. a piece of open ground (levelled , squared , and prepared for a sacrifice) , S3a1n3khBr. S3rS.
स्थण्डिल n. a boundary , limit , landmark W.
स्थण्डिल n. a heap of clods MW.
स्थण्डिल m. N. of a ऋषिCat.
Vedic Rituals Hindi
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्थण्डिल न.
चबूतरा, मिट्टी का उठा हुआ चबूतरा, काशिकर 29० इण्डेक्स; द्रष्टव्य - श्रौ.प.नि. 43.357।