सामग्री पर जाएँ

स्थाणुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थाणुः, पुं, (तिष्ठतीति । स्था + “स्थोणुः ।” उणा ० ३ । ३७ । इति णुः ।) शिवः । इत्यमरः । १ । १ । ३६ ॥ (यथा, रघुः । ११ । १३ । “स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्म्मुकः । विग्रहेण मदनस्य चारुणा सोऽभवत् प्रतिनिधिर्न कर्म्मणा ॥”) तन्नामकारणं यथा, -- “समुत्तिष्ठन् जलात्तस्मात् प्रजास्ताः सृष्टवानहम् ततोऽहं ताः प्रजा दृष्ट्वा रहिता एव तेजसा ॥ क्रोधेन महता युक्तो लिङ्गमुत्पाट्य चाक्षिपम् । उत्क्षिप्तं सरसो मध्ये ऊर्द्धमेव यदा स्थितम् । तदा प्रभृति लोकेषु स्थाणुरित्येव विश्रुतम् ॥” इति वामने ४६ अध्यायः ॥ (ब्रह्मा । यथा, महाभारते । १ । १ । ३२ । “यस्मात् पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्म्मनुः कः परमेष्ठ्यथ ॥”) कीलः । इति मेदिनी ॥ जीवकगन्धद्रव्यम् । यथा, “जीवके जीवनो जीवो निधिः स्थाणुः प्रकी- र्त्तितः ॥” इति शब्दचन्द्रिका ॥

स्थाणुः, पुं, क्ली, (स्था + णुः ।) निःशाखवृक्षः । मुडा गाछ इति भाषा ॥ (यथा, देवीभाग- वते । १ । १७ । ५३ । “छायायामातपे चेव समदर्शी महातपाः । ध्यानं कृत्वा तथैकान्ते स्थितः स्थाणुरिवा- चलः ॥”) तत्पर्य्यायः । ध्रुवः २ शङ्कुः ३ । इत्यमरः । २ । ४ । ८ ॥ अशाखवृक्षः ४ । इति जटाधरः ॥ अस्त्रभेदः । इति नीलकण्ठः ॥

स्थाणुः, त्रि, (स्था + णुः ।) स्थिरः । इति धरणिः ॥ (यथा, विष्णुपुराणे । १ । ५ । ५८ । “अव्ययञ्च व्ययञ्चैव यदिदं स्थाणुजङ्गमम् । तत् ससर्ज्ज तदा ब्रह्मा भगवानादिकृत् विभुः ॥”

"https://sa.wiktionary.org/w/index.php?title=स्थाणुः&oldid=179277" इत्यस्माद् प्रतिप्राप्तम्