सामग्री पर जाएँ

स्थायिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थायी, [न्] पुं, (तिष्ठतीति । स्था + णिनिः ।) भावभेदः । यथा, -- “स्थायिसात्त्विकसञ्चारिप्रभेदैः स्याद्रतिः पुनः ॥” इति हेमचन्द्रः ॥ (यथा, साहित्यदर्पणे । ३ । २०५ -- २०७ । “अविरुद्धा विरुद्वा वा यं तिरोधातुमक्षमाः । आस्वादाङ्कुरकन्दोऽसौ भावःस्थायीति सम्मतः ॥ यदुक्तम् । स्रक्सूत्रवृत्त्या भावानामन्येषामनुगामुकः । न तिरोधीयते स्थायी तैरसौ पुष्यते परम् ॥ तद्भेदानाह । रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च ॥ तत्र रतिर्मनोऽकूलेऽर्थे मनसः प्रवणायितम् । वागादिवैकृच्चेतोविकासो हास इष्यते ॥ इष्टनाशादिभिश्चेतो वैक्लव्यं शोकशब्दभाक् । प्रतिकूलेषु तैक्ष्ण्यस्यावबोधः क्रोध इष्यते ॥ कार्य्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते । रौद्रशक्या तु जनितं चित्तवैक्लव्यदं भयम् ॥ दोषेक्षणादिभिर्गर्हा जुगुप्सा विषयोद्भवा । विविधेषु पदार्थेषु लोकसीमातिवर्त्तिषु ॥ विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः । शमो निरीहावस्थायामात्मविश्रामजं सुखम् ॥ यथा मालतीमाधवे रतिः । नटकमेलके हासः । रामायणे शोकः । महाभारते शमः । एवमन्ये ऽपि । एते हि एतेष्वन्तरा उत्पद्यमानैस्तैस्तै- र्विरुद्धैरविरुद्धैश्च भावैरनुच्छिन्नाः प्रत्युत परि- पुष्टा एव स्वहृदयानुभवसिद्धाः ॥” * ॥) स्थिति- विशिष्टे, त्रि ॥ (तथा, महाभारते । ६ । ३ । २६ । “संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थायिन्¦ त्रि॰ स्था--णिनि।

१ स्थितिशीले अलङ्कारोक्तेरसानुकूले रत्यादिभावे पु॰।
“विभावेनानुभावेन व्यक्तःसञ्चारिणा तथा। रसतामेति रत्यादिः स्थायी भावःसचेतसाम्”
“अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाःआस्वादाङ्कुरकन्दोऽसौ भावः स्थायीति सम्मतः”।
“रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽषि च” सा॰ द॰। एते च क्रमेण शृङ्गारादीनां स्थायिभावाः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थायिन्¦ mfn. (-यी-यिनी-यि)
1. Steady, firm, unchangeable, invariable.
2. Who or what stays, or is, &c. f. (-यिनी)
1. Standing, staying.
2. Abiding, living.
3. Enduring, continuing, lasting. n. (-यि) Any- thing lasting, a permanent state or condition. m. (-यी) A class of those feelings or passions which are the objects of poetic descrip- tion: see the next. E. ष्ठा to stay, णिनि aff., युक् augment.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थायिन् [sthāyin], a. [स्था-णिनि]

Standing, staying, being situated (at the end of comp.).

Enduring, continuing, lasting, abiding; शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः Subhāṣ.; कतिपयदिवसस्थायिनी यौवनश्रीः Bh.3.82; Mv.7. 15.

Living, dwelling, remaining; संपत्स्यन्ते कतिपय- दिनस्थायिहंसा दशार्णाः Me.23.

Permanent, firm, steady, invariable, unchangeable. -m.

A lasting or permanent feeling; (see स्थायिभाव below); स्थायिनो$र्थे प्रवर्तन्ते भावाः संचारिणो यथा Śi.2.87. -n. Anything lasting, a permanent state or condition. -Comp. -भावः a fixed or permanent condition of mind, a lasting or permanent feeling; (these feelings being said to give rise to the different rasas or sentiments in poetry, each rasa having its own Sthāyibhāva); they are eight or nine; रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमो$ति च S. D.26; cf. व्यभिचारिभाव, भाव, विभाव also.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थायिन् mfn. standing , staying , being or situated in or on( comp. ) Nir. MBh. Ka1v. etc.

स्थायिन् mfn. being in a partic. place , resident , present Ka1v. Katha1s.

स्थायिन् mfn. being in a partic. state or condition Ka1v. Ma1rkP.

स्थायिन् mfn. permanent , constant , enduring , lasting (as a feeling or state ; See. स्थायि-भावabove ) A1s3vS3r. MBh. etc.

स्थायिन् mfn. persevering , steadfast S3is3.

स्थायिन् mfn. faithful , trustworthy Bhar.

स्थायिन् mfn. having the form of( comp. ) VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=स्थायिन्&oldid=254107" इत्यस्माद् प्रतिप्राप्तम्