सामग्री पर जाएँ

स्थालीपाकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थालीपाकः, त्रि, (स्थाल्यां पाको यस्य ।) भाजन- पक्वान्नादिः । यथा, चातुर्म्मास्यव्रते मात्स्ये । “लभते सन्ततिं दीर्घां स्थालीपाकमभक्षयन् ॥” इति तिथ्यादितत्त्वम् ॥ (स्थाल्यां पच्यते इति । पच् + घञ् । स्थाली- कृतपाकविशेषे, चरुविशेषे च पुं । यथा, महाभारते । ३ । २३२ । ३२ । “ये च धर्म्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा । भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्व्वसु ॥ मान्यानां मांनसत्कारा ये चान्ये विदिता मम तान् सर्व्वाननुवर्त्तामि दिवारात्रमतन्द्रिता ॥”) मांसाष्टकाश्राद्धे स्थालीपाकस्य मांसप्रति- निधित्वं यथा, “पश्वभावे स्थालीपाकेन यथा गोभिलः । ‘अपि वा स्थालीपाकं कुर्व्वीत इति ।’ तद्विधानन्तु । “स्थालीपाकं पशुस्थाने कुर्य्याद्यद्यानुकल्पिकम् श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु ॥” इति छन्दोगपरिशिष्टोक्तं ग्राह्यम् । अन्विति ओदनचरोः पश्चात् ।” इति तिथ्यादितत्त्वम् ॥ (वैद्यकोक्तस्थालीपाकविधिर्यथा, -- अथ स्थालीपाकविधिः । “इत्थमादित्यपाकान्ते स्थाल्यां पाकमुपाचरेत् । स्थालीपाके फलग्राह्यमयसस्त्रिगुणीकृतम् ॥ तस्य षोडशिकं तोयमष्टभागावशेषितम् । मृदुमध्यकठोराणामन्येषामयसा समम् ॥ क्वथनीयं समादाय चतुरष्टौ च षोडश । गुणानां स्थाप्यते तोयं शेषयेदयसा समम् ॥ स्वरसस्यापि लौहेन स्थालीपाके समानता । स्थाल्यां क्वाथादिकं दत्त्वा यथाविधिविनिर्म्मितम् पाकेन क्षीयते यस्मात् स्थालीपाक इति स्मृतः हस्तिकर्णपलाशस्य मूलञ्च शतमूलिका ॥ भृङ्गराजाख्यराजानामेषां निजरसैः सह । मिलित्वा वा विधातव्यं स्थालीपाके फलादनु । यथा दोषौषधेनापि स्थालीपाको विधीयते ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)

"https://sa.wiktionary.org/w/index.php?title=स्थालीपाकः&oldid=179329" इत्यस्माद् प्रतिप्राप्तम्