स्थावर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थावरम्, क्ली, (तिष्ठति धनुषीति स्था + वरच् ।) धनुर्गुणः । इति त्रिकाण्डशेषः ॥

स्थावरः, पुं, (तिष्ठतीति । स्था + वरच् । पर्व्वतः । इति शब्दरत्नावली त्रिकाण्डशेषश्च ॥

स्थावरः, त्रि, (तिष्ठतीति । स्था + “स्थेशभास- पिसकसो वरच् ।” ३ । २ । १७५ । इति वरच् ।) जङ्गमेतरः । अचलवस्तु । इत्यमरः । ३ । १ । ७३ ॥ जङ्गमा गोमक्षिष्यादयः ततो- ऽन्यो वृक्षादिः स्थावरः । इति भरतः ॥ * ॥ स च ब्रह्मणः सप्तमः सर्गः षड्विधश्च । यथा, -- “सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषाञ्च यः । वनस्पत्योषधिलता त्वक्सारो वीरुधो द्रुमाः ॥” तेषां लक्षणं यथा, -- “उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः ॥” इति श्रीभागवतम् ॥ “ये पुष्पं विना फलन्ति ते वनष्पतयः । ओषधयः फलपाकान्ताः । लता आरोहणापेक्षाः । त्वक्सारो वेण्वादयः । लता एव काठिन्येन आरोहणानपेक्षा वीरुधः । ये पुष्पैः फलन्ति ते द्रुमाः । ऊर्द्ध्वं स्रोत आहारसञ्चारो येषां ते । तमःप्रायाः अव्यक्तचैतन्याः । अन्तःस्पर्शाः स्पर्श- मेव जानन्ति नान्यत्तदापि अन्तरेव न बहिः । विशेषिणः अव्यवस्थितपरिणामाद्यनेकभेदवन्तः” इति तट्टीकायां श्रीधरस्वामी ॥ * ॥ स्थावरधनं सान्निध्ये तरेभ्यो न विक्रे तव्यम् । यथा, -- “स्थावरं धनमन्यस्मै स्थिते सान्निध्यवर्त्तिनि । योग्ये क्रेतरि विक्रेतुं न शक्तः स्थावराधिपः ॥ सान्निध्यवर्त्तिनां ज्ञातिः सवर्णो वा विशिष्यते । तयोरभावे सुहृदो विक्रेत्रिच्छा गरीयसी । निर्णीतमूल्ये पण्येन स्थावरस्य क्रयोद्यमे । तन्मूल्यञ्चेत् समीपस्थो राति क्रेता न चापरः ॥ मूल्यं दातुमशक्तश्चेत् सम्मतो विक्रयेऽपि वा । सन्निधिस्थस्तदान्यस्मै गृही शक्नोति विक्रये ॥ क्रीतञ्चेत् स्थावरं देवि ! परोक्षे प्रतिवासिनः । श्रवणादेव तन्मूल्यं दत्त्वासौ प्राप्नुमर्हति ॥ क्रेता तत्र गृहारामान् विनिर्म्माति भुनक्ति वा मूल्यं दत्त्वापि नाप्नोति स्थावरं सन्निधिस्थितः ॥ इति महानिर्व्वाणतन्त्रे द्वादशोल्लासः ॥ स्थावरे विशेषो यथा, याज्ञवल्क्यः । “मणिमुक्ताप्रबालानां सर्व्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्व्वस्य न पिता न पितामहः ॥” अपि च । “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्ज्जितम् । असम्भूय सूतान् सर्व्वान् न दानं न च विकयः ॥” विडङ्गं चन्दनं पत्रं प्रियङ्गु ध्यामकं तथा । हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरासहा ॥ कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम् । विषाणि हन्ति सर्व्वाणि शीघ्रमेवाजितं क्वचित् ॥ दूषीविषार्त्तं सुखिन्नमूर्द्धञ्चाधमश्च शोधितम् । पाययेतागदं नित्यमिमं दूषीविषापहम् ॥ पिप्पल्यो ध्यामकं मांसी सावरः परिपेलवम् । सुवर्च्चिका ससूक्ष्मैला तोयं कनकगैरिकम् ॥ क्षौद्रयुक्तोऽगदो ह्येष दूषीविषमपोहति । एष नाम्ना विषारिस्तु न चान्यत्रापि वार्य्यते ॥ ज्वरे दाहे च हिक्कायामानाहे शुक्रसंक्षये । शोफेऽतिसारे मूर्च्छायां हृद्रोगे जठरेऽपि वा ॥ उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः । यथास्वं तेषु कुर्व्वीत विषघ्नै रौषधैः क्रियाम् ॥ साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम् । दूषीविषमसाध्यन्तु क्षीणस्याहितसेविनः ॥” इति सुश्रुते कल्पस्थाने २ अध्यायः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थावर वि।

अचरम्

समानार्थक:स्थावर,जङ्गमेतर

3।1।73।2।2

स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः। कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थावर¦ त्रि॰ स्था--वरच।

१ अचञ्चले

२ स्थिर वृक्षादौ व्यादौच अमरः।
“स्थावरं जङ्गमञ्चैव यद्यपि स्वयमाज{??}” स्मृतिः।

३ पर्वते पु॰

४ धनुर्गुणे न॰ त्रिका। स्थाकरसर्गश्चषड्विधः सर्गशब्दे

५२

५० पृ॰ दृश्यः। ख्यावरभमं चसन्निकृष्टे क्रेतरि सति असन्निकृष्टाय न विक्रेयं यथोक्तंमहानिर्वा॰

१२ प॰
“स्थावरं धनमन्यस्मै स्थिते सान्निध्य-वर्त्तिनि। योग्ये क्रेतरि विक्रेतुं न शक्तः स्थावरा-धिपः। सान्निध्यवर्त्तिनां जातिः सवर्णो वा विद्वेष्यते। तयोरभावे सुहृदो विक्रेत्रिच्छा गरीयसी। निर्णीत-मूल्ये पण्येन स्थावरस्य क्रयोद्यमे। तन्मूल्यञ्चेत् सनी-पस्थो राति क्रेता न चापरः। मूल्यं दातुमशक्तश्चेत्सम्मतो विक्रयेऽपि वा। सन्निधिस्थस्तदान्यस्मै गृहीशक्नोति विक्रये। क्रीतञ्चेत् स्थावरं देवि! परोक्षे प्रति-वासिनः। श्रवणादेव तनूल्यं दत्त्वाऽसौ प्राप्तुमर्हति। क्रेता तत्र गृहारामान् विनिर्माति भुनक्ति वा। मूल्यंदत्त्वाऽपि नाप्नोति स्थावरं सन्निधिस्थितः।
“स्थावरेविक्रयो नास्ति कुर्य्यादाधिमनुज्ञया” स्मृतिः। स्थावरस्य के-वलविक्रयनिषेधात् विक्रयेऽपि कर्त्तव्ये सहिरण्यमुदकंदत्त्वा दानरूपेण विक्रयः कर्त्तव्य इति” मिता॰।
“एकोऽपि स्थावरे कुर्य्यात् दानाधमनविपयम् नापतकालेकुदुम्बार्थ धर्मार्थे च विशेषतः” स्मृतिः।
“संविभाग-क्रयप्राप्तं पिच्यं लब्धञ्च वान्यतः। स्वावरं सिद्धि-माप्नोति भुक्त्या, हानिरुपेक्षया”।
“सोदायिके सदास्त्राणां स्यातन्त्र्यं परिकीर्त्तितम्। विक्रये चैव दाने चयषेष्टं स्थावरेष्वपि” कात्या॰।
“भर्त्त्रा पीतेन व्यद्वर्त्तस्त्रियै तस्मिन् मृतेऽपि च। सा यथाकाममश्नीयात्दद्याद्वा स्थावरादृते” नारदः।
“अविभक्तं स्थावर यत्सर्वेषामेव तद्भवेत्। विभक्तं स्थावरं ग्राह्यं नान्योदर्य्यैःक{??}ञ्च{??}” यमः।
“सर्वेषां तुल्यरूप णां सोदरासोदराणामिति” श्रीकृष्णः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थावर¦ mfn. (-रः-रा-रं)
1. Fixed, stationary, stable, immovable, (as opposed to जङ्गम।)
2. Regular, established.
3. Inactive, slow, inert. m. (-रः) A mountain. n. (-रं)
1. A bow-string.
2. Immovable property, land or houses.
3. Family property, jewels, &c., which have been long in a family, and which ought not to be sold or given away.
4. Any stationary or inanimate object, (considered to be the seventh creation of BRAHMA
4.)
5. A heir-loom. E. ष्ठा to stand, वरच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थावर [sthāvara], a. [स्था-वरच्]

Fixed to one spot, stable, stationary, immoveable, inanimate (opp. जङ्गम); शरी- रिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव Ku.1.23;6.67, 73.

Inert, inactive, slow.

Regular, established.-रः A mountain; स्थावराणां हिमालयः Bg.1.25.

रम् Any stationary or inanimate object (such as clay, stones, trees &c. which formed the seventh creation of Brahman; cf. Ms.1.41); मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः R.2.44; Ku.6.58.

A bowstring.

Immoveable property, real estate.

A heir-loom.

A large body; (fig.) a gross or material body (स्थूलशरीर); गमनं निरपेक्षश्च पश्चादनवलोकयन् । ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः Mb.12.9.19.

Comp. अस्थावरम्, जङ्गमम् moveable and immoveable propery.

animate and inanimate things. -आत्मन्a. of immoveable form; स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्त- थाहि ते Ku.6.67.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थावर mf( आ)n. standing still , not moving , fixed , stationary , stable , immovable ( opp. to जङ्गमSee. ) TS. etc.

स्थावर mf( आ)n. firm , constant , permanent , invariable A1past. R. Hariv.

स्थावर mf( आ)n. regular , established W.

स्थावर mf( आ)n. vegetable , belonging to the -vegvegetable world Sus3r.

स्थावर mf( आ)n. relating to immovable property Ya1jn5. Sch.

स्थावर m. a mountain(See. -राज) Bhag. Kum.

स्थावर n. any stationary or inanimate object (as a plant , mineral etc. ; these form the seventh creation of ब्रह्माSee. under सर्ग) Up. Mn. MBh. etc.

स्थावर n. stability , permanence( v.l. स्थिर-त्व) Subh.

स्थावर n. immovable property , real estate (such as land or houses) Ya1jn5.

स्थावर n. a heir-loom , family-possession (such as jewels etc. , which have been long preserved in a family and ought not to be sold) W.

स्थावर n. a bow-string L.

स्थावर etc. See. p. 1264 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=स्थावर&oldid=505852" इत्यस्माद् प्रतिप्राप्तम्