स्थावरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्थावरः, पुं, (तिष्ठतीति । स्था + वरच् । पर्व्वतः । इति शब्दरत्नावली त्रिकाण्डशेषश्च ॥
स्थावरः, त्रि, (तिष्ठतीति । स्था + “स्थेशभास- पिसकसो वरच् ।” ३ । २ । १७५ । इति वरच् ।) जङ्गमेतरः । अचलवस्तु । इत्यमरः । ३ । १ । ७३ ॥ जङ्गमा गोमक्षिष्यादयः ततो- ऽन्यो वृक्षादिः स्थावरः । इति भरतः ॥ * ॥ स च ब्रह्मणः सप्तमः सर्गः षड्विधश्च । यथा, -- “सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषाञ्च यः । वनस्पत्योषधिलता त्वक्सारो वीरुधो द्रुमाः ॥” तेषां लक्षणं यथा, -- “उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः ॥” इति श्रीभागवतम् ॥ “ये पुष्पं विना फलन्ति ते वनष्पतयः । ओषधयः फलपाकान्ताः । लता आरोहणापेक्षाः । त्वक्सारो वेण्वादयः । लता एव काठिन्येन आरोहणानपेक्षा वीरुधः । ये पुष्पैः फलन्ति ते द्रुमाः । ऊर्द्ध्वं स्रोत आहारसञ्चारो येषां ते । तमःप्रायाः अव्यक्तचैतन्याः । अन्तःस्पर्शाः स्पर्श- मेव जानन्ति नान्यत्तदापि अन्तरेव न बहिः । विशेषिणः अव्यवस्थितपरिणामाद्यनेकभेदवन्तः” इति तट्टीकायां श्रीधरस्वामी ॥ * ॥ स्थावरधनं सान्निध्ये तरेभ्यो न विक्रे तव्यम् । यथा, -- “स्थावरं धनमन्यस्मै स्थिते सान्निध्यवर्त्तिनि । योग्ये क्रेतरि विक्रेतुं न शक्तः स्थावराधिपः ॥ सान्निध्यवर्त्तिनां ज्ञातिः सवर्णो वा विशिष्यते । तयोरभावे सुहृदो विक्रेत्रिच्छा गरीयसी । निर्णीतमूल्ये पण्येन स्थावरस्य क्रयोद्यमे । तन्मूल्यञ्चेत् समीपस्थो राति क्रेता न चापरः ॥ मूल्यं दातुमशक्तश्चेत् सम्मतो विक्रयेऽपि वा । सन्निधिस्थस्तदान्यस्मै गृही शक्नोति विक्रये ॥ क्रीतञ्चेत् स्थावरं देवि ! परोक्षे प्रतिवासिनः । श्रवणादेव तन्मूल्यं दत्त्वासौ प्राप्नुमर्हति ॥ क्रेता तत्र गृहारामान् विनिर्म्माति भुनक्ति वा मूल्यं दत्त्वापि नाप्नोति स्थावरं सन्निधिस्थितः ॥ इति महानिर्व्वाणतन्त्रे द्वादशोल्लासः ॥ स्थावरे विशेषो यथा, याज्ञवल्क्यः । “मणिमुक्ताप्रबालानां सर्व्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्व्वस्य न पिता न पितामहः ॥” अपि च । “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्ज्जितम् । असम्भूय सूतान् सर्व्वान् न दानं न च विकयः ॥” विडङ्गं चन्दनं पत्रं प्रियङ्गु ध्यामकं तथा । हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरासहा ॥ कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम् । विषाणि हन्ति सर्व्वाणि शीघ्रमेवाजितं क्वचित् ॥ दूषीविषार्त्तं सुखिन्नमूर्द्धञ्चाधमश्च शोधितम् । पाययेतागदं नित्यमिमं दूषीविषापहम् ॥ पिप्पल्यो ध्यामकं मांसी सावरः परिपेलवम् । सुवर्च्चिका ससूक्ष्मैला तोयं कनकगैरिकम् ॥ क्षौद्रयुक्तोऽगदो ह्येष दूषीविषमपोहति । एष नाम्ना विषारिस्तु न चान्यत्रापि वार्य्यते ॥ ज्वरे दाहे च हिक्कायामानाहे शुक्रसंक्षये । शोफेऽतिसारे मूर्च्छायां हृद्रोगे जठरेऽपि वा ॥ उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः । यथास्वं तेषु कुर्व्वीत विषघ्नै रौषधैः क्रियाम् ॥ साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम् । दूषीविषमसाध्यन्तु क्षीणस्याहितसेविनः ॥” इति सुश्रुते कल्पस्थाने २ अध्यायः ॥)
