सामग्री पर जाएँ

स्थाविरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थाविरम्, क्ली, (स्थविरस्य भावः कर्म्म वा । स्थविर + “हायनान्तयुवादिभ्योऽण् ।” ५ । १ । १३० । इत्यण् ।) स्थविरत्वम् । वृद्धत्वम् । इत्यमरः । २ । ३ । ४० ॥ (यथा, महाभारते । २ । १९९ । ३ । “गार्हस्थेऽथवा बाल्ये यौवने स्थाविरेऽपि वा । यथाफलं समश्नाति तथा त्वं कथयस्व मे ॥”) तत्तु सप्ततिवर्षात् परम् यथा, -- “आ षोडशाद्भवेद्बालस्तरुणस्तत उच्यते । वृद्धः स्यात् सप्ततेरूर्द्ध्वं व्रर्षोयान् नवतेः परम् ॥” इति भरतधृतस्मृतिवचनम् ॥

"https://sa.wiktionary.org/w/index.php?title=स्थाविरम्&oldid=179348" इत्यस्माद् प्रतिप्राप्तम्