स्थास्नुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्थास्नुः, त्रि, (तिष्ठतीति । स्था + “ग्लाजिस्थश्च क्स्नुः ।” ३ । २ । १३९ । इति स्नुः ।) स्थिरतरः । इत्यमरः । ३ । १ । ७३ ॥ (यथा, भट्टिः । २ । ४७ । “हिरण्मयी शाललतेव जङ्गमा च्युता दिवः स्थास्नु रिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली ॥”) शाश्वतः । इति भरतः ॥ (यथा किराते । २ । १९ । “अभिमानधनस्य गत्वरै- रसुभिः स्थास्नु यशश्चिचीषतः । अचिरांशुविलासञ्चञ्चला ननु लक्ष्मीः फलमानुसङ्गिकम् ॥” स्थावरः । इति श्रीभागवतटीकायां श्रीधर- स्वामी । २ । ६ । ४० ॥ (यथा, मनुः । १ । ५६ । “यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्त्तिं विमुञ्चति ॥”
