सामग्री पर जाएँ

स्थितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थितः, त्रि, (स्था + क्तः ।) प्रतिज्ञातवान् । (यथा, हरिवंशे । २५५ । ९५ । “पक्षीन्द्रवचनं श्रुत्वा दानवेन्द्रोऽब्रवीदिदम् । स्थितोऽस्मि समये तस्य अनन्तस्य महात्मनः ॥”) ऊर्द्ध्वः । निश्चलः । इति मेदिनी ॥ (वर्त्तमानः । गतिनिवृत्तिविशिष्टः । यथा, रघुः । २ । ६ । “स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः । जलाभिलाषी जलमादधानां छायेव तां भूपतिरन्वगच्छत् ॥” * ॥ क्ली, स्था + भावे क्तः । अवस्थानम् । कुल- मर्य्यादा । यथा, रामायणे । २ । ३९ । २४ । “साध्वीनान्तु स्थितानान्तु शीले सत्ये श्रुते स्थिते स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्थितः&oldid=179357" इत्यस्माद् प्रतिप्राप्तम्