सामग्री पर जाएँ

स्थितप्रज्ञः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थितप्रज्ञः, त्रि, (स्थिता प्रतिष्ठिता आत्मा- नात्मविवेकजा प्रज्ञा यस्य ।) मनोगतसर्व्व- वासनारहितः । यथा, श्रीभगवद्गीतायाम् २ । ५५ -- ५६ । “प्रजहाति यदा कामान् सर्व्वान् पार्थ ! मनो- गतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधोर्म्मुनिरुच्यते ॥”

"https://sa.wiktionary.org/w/index.php?title=स्थितप्रज्ञः&oldid=179359" इत्यस्माद् प्रतिप्राप्तम्