सामग्री पर जाएँ

स्थूरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थूरी, [न्] पुं, सादृश्येन स्थूरो वृषोऽस्यास्तीति । इनिः ।) खरवृषभवत् पृष्ठेन भारवाहकोऽश्वः । पृष्ठेन वहति पृष्ठस्थमपि बाह्यमुपचारात् पृष्ठं तद्वहति वा पृष्ठ्यः ढघे कादिति यः स्थूल्यते संव्रियते पृष्ठमनया स्थुरा । स्थूल त् क ङ वृंहणे सेमक्तात् सरोरिति अः निपातनात् लस्य रत्वं स्थूरा पर्य्ययणं तस्या इदमिति ष्णे स्थौरं पृष्ठारोपितभारादिकं तदस्त्यस्येति इनि स्थौरी स्थूरी च स्थौरीति स्वामी । इत्यमर- टीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=स्थूरी&oldid=505857" इत्यस्माद् प्रतिप्राप्तम्