सामग्री पर जाएँ

स्थूलजीरकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थूलजीरकः, पुं, (स्थूलो जीरकः ।) जीरकभेदः । कालजिरा इति वङ्गभाषा । मगरेला इति कलौञ्जी इति च हिन्दीभाषा । तत्पर्य्यायः । दिव्या २ उपकुञ्चिका ३ काला ४ पृथ्वी ५ स्थूलकणा ६ पृथुः ७ मनोज्ञा ८ जारणी ९ जीर्णा १० तरुणः ११ सुषुवी १२ कारवी १३ पृथ्वीका १४ । अस्य गुणाः । कटुत्वम् । तिक्त- त्वम् । उष्णत्वम् । बातगुल्मामदोषश्लेष्माध्मान- जन्तुनाशित्वम् । जीर्णत्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ त्रिविधजीरकनामगुणाः । “जीरको जरणोऽजाजी कणा स्याद्दीघजीरकः कृष्णजीरः सुगन्धश्च तथैवाहारशोधनः ॥ कणाजाजी तु सुषवो कालिका चोपकालिका पृध्वीका कारवी पृध्वी पृथुः कृष्णोपकुञ्चिका । उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥ जीरकत्रितयं रूक्षं कटुकं दीपनं लघु । संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् ॥ ज्वरघ्नं पाचनं बल्यं वृष्यं रुच्यं कफापहम् । चक्षष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=स्थूलजीरकः&oldid=179450" इत्यस्माद् प्रतिप्राप्तम्