सामग्री पर जाएँ

स्थूलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थूलम्, त्रि, (स्थूलयतीति । स्थूल + अच् ।) उप- चितावयवम् । मोटा इति भाषा । तत्पर्य्यायः । पीनम् २ पीवम् ३ पीवरम् ४ । यथा, कुमारे । २ । ११ । “द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः । व्यक्तो व्यक्ते तरश्चासि प्राकाम्यं ते विभूतिषु ॥”) जडः । इत्यमरः । ३ । ३ । २०३ ॥ (यथा, महाभारते । १२ । ३०५ । १६ । न यः संसत्सुः कथयेत् ग्रन्थार्थं स्थूलबुद्धिमान् । स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥”)

स्थूलम्, क्ली, (स्थूल + अच् ।) कूटम् । समूहः । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=स्थूलम्&oldid=179423" इत्यस्माद् प्रतिप्राप्तम्