सामग्री पर जाएँ

स्थैर्य्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थैर्य्यम्, क्ली, (स्थिरस्य भावः । स्थिर + ष्यञ् ।) स्थिरत्वम् । गर्भस्थस्याङ्गानां स्थैर्य्यं चतुर्थे मासि भवति । इति सुखबोधः ॥ (यथा, याज्ञवल्क्यः । ३ । ८० । “स्थैर्य्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः । षष्ठे बलस्य वर्णस्य नखरोम्नाञ्च सम्भवः ॥” * ॥ दृढता । यथा, महाभारते । ६ । १३ । ८ । “महेन्द्रसदृशः शौर्य्ये स्थैर्य्ये च हिमवानिव । समुद्र इव गाम्भीर्य्ये सहिष्णुत्वे धरासमः ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्थैर्य्यम्&oldid=179536" इत्यस्माद् प्रतिप्राप्तम्