सामग्री पर जाएँ

स्थौणेयम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्थौणेयम्, क्ली, (स्थूणायां भवम् । स्थूणा + ढक् ।) ग्रन्थिपर्णनामकगन्धद्रव्यम् । इत्यमरः । २ । ४ । १३२ ॥ गा~ठियाला इति भाषा ॥ अथ ग्रन्थि- पर्णस्यैव भेदः । इषतसुगन्धि स्थौणेयं थुनेर इति लोके । “स्थौणेयकं बर्हिबर्हं शुकबर्हञ्च कुक्कुरम् । शीर्णं रोम शुकं चापि शुकपुष्पं शुकच्छदम् ॥ स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत् मेधाशुक्रकरं त्वच्यं रक्षोऽश्रीज्वरजन्तुजित् ॥ हन्ति कुष्ठास्रतृड्दाहदौर्गन्ध्यतिलकालकान् ॥” अथ ग्रन्थिपर्णस्यैव भेदो भण्डिउर इति नेपाल- देशे भवति । “निशाचरो धनहरः कितवो गणहासकः । रोचको मधुरस्तिक्तः कटुः पाके कटुर्लघुः ॥ तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफा- निलान् । रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=स्थौणेयम्&oldid=179540" इत्यस्माद् प्रतिप्राप्तम्