स्नातक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्नातकः, पुं, (स्नात एव । स्ना + “यावादिभ्यः कन् ।” ५ । ४ । २९ । इति स्वार्थे कन् ।) आप्लुतव्रती । इत्यमरः । २ । ७ । ४३ ॥ द्वे समाप्तवेदाध्ययने स्नानशीले स्नातं स्नानं शील- मस्य । स्नातकः विकारसंघेति कः । आप्लुतं स्नानं तत्र व्रती नित्यस्नायी । स्ना प्लुत्यां भावे क्तः आप्लवव्रतीति क्वचित् पाठः । ब्रह्मचर्य्यं त्यक्त्वा यो गृहाश्रमं गतः स स्नातकः । समाप्त- वेदाध्ययनो यः स्नानशीलः आश्रमान्तरं न गतः सौऽपि स्नातकः । स्नातकस्त्रिविधः । ब्रह्मचर्य्या- चरणस्य यः शास्त्रबोधितोऽवधिः । तावद्वेद- मुपास्यासमाप्तवेद एवाश्रमान्तरं गतो यः स व्रतस्नातकः । वेदमधीत्यगुरुसन्निधौ वेदाभ्यासं यः करोति स विद्यास्नातकः । पालितसम्यग्- व्रतः प्राप्तवेदो यो द्वितीयाश्रमं गतः स उभय- स्नातकः । इति टीकान्तरे । इति भरतः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्नातक पुं।
समाप्तवेदाध्ययनाश्रमान्तरागतः
समानार्थक:स्नातक,आप्लुतव्रती
2।7।43।1।3
ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती। ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्नातक¦ पु॰ स्ना--भावे क्त स्नानं वेदाध्ययनानन्तरं समावर्त्तना-ङ्गस्नानं तदस्यास्ति कन्, कर्त्तरि क्त स्वार्थे क वा। वेदा-ध्ययनानन्तरं गार्हस्थ्याय कृतसमावर्त्तनांङ्गस्नाने गृहस्थ-भेदे तच्च व्रतं मिता॰ आचराध्याये दर्शितं यथा
“स्नानादारभ्य ब्राह्मणस्यावश्यं कर्त्तव्यानि विधिप्रति-निषेधकात्मकानि मानससंकल्परूपाणि स्नातकव्रतान्याह
“न स्वाध्यायविरोध्यर्थमीह्नेत न यतस्ततः। न विरुद्ध-प्रसङ्गेन सन्तोषी च भवेत् सदा” याज्ञ॰। ब्राह्मणस्य प्रति-ग्रहादयोऽर्थप्राप्त्युपाया दर्शिताः। अत्र विशेष उच्यते। स्वाध्यायविरुद्धमर्थमप्रतिषिद्धमपि नेहेत नान्विच्छेत्। नयतस्ततो न यतः कुतश्चिदविदिताचारात्, न विरुद्धप्रसङ्गेनविरुद्धोऽयाज्ययाजनादिप्रसङ्गो नृत्यगीतादि विरुद्धं वातत्र प्रसङ्गश्च विरुद्धप्रसङ्गः तेन नार्थमीहेत इति सम्बध्यते। तत्र आवृत्तिः प्रत्येकं पर्युदासार्था। सर्वत्राप्यस्मिन्स्नातकप्रकरणे नञ्शब्दः पर्युदासार्था एव। किञ्च।
“अर्थालाभेपि सन्तोषी परितृप्तो भवेत्। चकारात् संय-तश्च
“सन्तोषं परमास्थाय सुखार्थी संयतो भवेत्” इतिमनुस्नरणात्। कुतस्तर्हि धनमन्विच्छेदित्यत आह” मिता॰।
“राजान्तेवासियाज्येभ्यः सीदन्नच्छेद्धनं क्षुघा। दम्भिहैतुकपाषण्डिवकवृत्तींश्च वर्जयेत्” याज्ञ॰।
“क्षुधा सीदन् पी-ह्यमानः स्नातको राज्ञो विदितवृत्तान्तादन्तेवासिनो वक्ष्य-माणलक्षणाद्याज्याद्याजनार्हाच्च धनमाददीत। क्षुधासीदन्नत्यमेन विभागादिप्राप्तकुटुम्बपोषणपर्य्याप्तधनो नकाणवेमान्वच्छेदिति गम्यते। किञ्च। दम्मिहेतुकादीन्सकलकार्य्येषु लौकिकशा{??}येषु वर्जयेत्। लोकरञ्जनार्थमेवकर्मानुष्ठायी दम्भी युक्षिबलेन सर्वत्र संशयकारीहैतुकः त्रैविद्यवृद्धापरिगृहीताम्रमिणः पाषण्डिनः। पकटदस्य वर्त्तनमिति वकवृत्तिः। यथाह मढः
“अधोठष्टि{??} स्नार्थसाधनतत्परः। रठो मिय्याविनी-[Page5358-b+ 38] तश्च वकवृत्तिरुदाहृतः” इति। प्रतिषिद्धसेविनो विक{??}आःविडालमार्जारस्तस्व स्वभावो व्रतं यस्यासौ वैडाल-व्रतिकः
“धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः। वैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः” इति मनु-स्मरणात्। चकाराद्विकर्मस्थवैडालब्रतिकशठान् यथाहमनुः
“पाषण्डिनो विकर्मस्थान् वैडालव्रतिकान् शठान्। हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्” इति। शठः सर्वत्र वक्रः। एतैः संसर्गनिषेधादेव स्वयंएवंविधो न भवेदिति गम्यते” मिता॰। किञ्च
“शुक्लाम्बरधरोनीचकेशस्मश्रुनखः शुचिः। न भार्य्यादर्शनेऽश्नीया-न्नैकवासा न संस्थितः” याज्ञ॰
“शुक्ले धौते अम्बरे वाससीधारयतीति शुक्लाम्बरधरः। केशाश्च श्मश्रुणि च नखाश्चकेशश्मश्रुनखन्नीचं कृत्त कशश्मश्रुनखं यस्यासौ तथाक्तःशुचिरन्तर्बहिश्च स्नानानुलेपधूपस्रगादिभिः सुगान्धिश्चभवेत्। यथाह गौतमः
“म्नातको नित्य शुचिः सु-गन्धिः स्नानशीलः” इति। सुगन्धवत्त्वविधानादेव निर्गन्ध-माल्यस्य निषेधः। तथा च गोभिलः
“नागन्धां स्रज-न्धारयेदन्यत्र हिरण्यरत्नस्रजः” इति।
“सदा स्नातकएवम्भूतो भवेत्” एतच्च सति सम्भवे
“न जीर्णमलवद्वासाभवेच्च विभवे सतीति” मनुस्मरणात्। न च भार्याया दर्शनेतस्यां पुरतोऽवस्थितायां नाश्नीयादवीर्यवदपत्योत्पात्तम-यात् तथा च श्रुतिः
“जायाया अन्ते नाश्नीयादवीर्य्य-वदपत्यं भवति” इत्यतस्तया सह भोजनं दूरादेव निरस्तम्। न चैकवासाः। नापि संस्थितः उत्थितः अश्नोयादितिसंवध्यते मिता॰।
“न संशयं प्रपद्येत नाकस्मादप्रियं वदेत्। नाहितं नानृतञ्चैव न स्तेनः स्यान्न बार्द्धुषी” याज्ञ॰।
“कदाचिदपि संशयं प्राणविपत्तिसशयावह कर्म न प्रप-द्येत न कुर्य्यात्। यथा व्याघ्रचौराद्युपहतदेशाक्रम-णादि। अकस्मान्निःकारणं किञ्चिदपि परुषमप्रियम्उद्वेगकारि वाक्यं न वदेत्। न चाहितमनृत वा प्रिय-मपि। चकारादसभ्यं बीभत्सकरञ्चाकस्मन्न वदेदिति संब-ध्यते। एतच्च परिहासादिव्यतिरेवेण
“गुरुणापि समंहास्यं कर्त्तव्यं कुटिलं विना” इति स्मरणात्। न चस्तेनः अन्यदीयस्यादत्तस्य ग्रहीता स्यात् न बार्द्धुषीस्यात् प्रतिषिद्धवृद्धूपजीवी वाद्धुंषी न स्यात्” मिता॰।
“दाक्षायणी ब्रह्मसूत्री बेणुमान् स्रकरण्डलुः। कुर्य्यात्प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन्” याज्ञ॰। दाक्षायणं सुवर्णंतदस्यस्तीति दाक्षायणी। ब्रह्मसृत्रे यज्ञोप्रवीतं यस्या-[Page5359-a+ 38] स्तीति ब्रह्मसूत्री वैणवयष्टिमान् कमण्डलुमान् स्यादितिसर्वत्र सम्बन्धनीयम्। अत्र ब्रह्मचारिप्रकरणोक्तस्यापियज्ञोपवीतस्य पुनर्षचनं द्वितीयप्राप्त्यर्थमृ। यथाहवसिष्ठः
“स्नातकानां द्वितीयं स्यादन्तर्वासस्तथोत्तरम्। यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः” इति। उत्रच दाक्षायणीति सामान्यामिधानेऽपि कुण्डलधारण-मेव कार्य्यम्
“वैणवीं धारयेद् यष्टिं सोदकञ्च कमण्ड-लुम्। यज्ञोपवीतं वेदञ्च शुभे रौक्मे च कुण्डले” इतिमनुस्मरणात्। देवं देवप्रतिमां मृदमुद्धृताम्। गांब्राह्मणं वनस्पतिं चाश्वत्थादिकं प्रदक्षिणं कुर्य्यात्एतान् दक्षिणतः कृत्वा व्रजेत्। एवञ्चतुष्पथादीनपि
“मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम्। प्रदक्षिणानिकुर्वीत प्रज्ञातांश्च वनस्पतीन्” इति मनुस्मरणात् मिता॰।
“न तु मेहेन्नदीच्छायावर्त्मगोष्ठाम्बुभस्मसु। न प्रत्यग्न्य-र्कगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनः” याज्ञ॰।
“नद्यादिषु नमेहेत् न मूत्रपुरीषोत्सर्गं कुर्य्यात्। एवं श्मशानादा-वपि यथाह शङ्खः
“न गोमयकृष्टोप्वशाद्बलचितिश्मशानवर्त्मखलपर्वतपुलिनेषु मेहेत् भूताधारत्वा-दिति”। तथाग्न्यदीन् प्रति अग्न्यादीनामभिमुखं न मे-हेत्। नाप्येतान् पश्यन् यथाह गौतमः
“नवाय्वग्निविप्रादित्यापोदेवतागाश्च प्रति पशृन् वा मूत्रपुरीषामेध्यानि कुर्य्यान्न देवताः प्रति पादौ प्रसारयेत्”। एतद्देशव्यतिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्द्धाय मूत्रपुरीषेकुर्य्यादिति यथाह वशिष्ठः
“परिवेष्टितशिरा भूमिम-यज्ञियैस्तृणैरन्तर्द्धाय मूत्रेपुरीषे कुर्यादिति” मिता॰।
“नेक्षे-तार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम्। न च मूत्रंपुरीषञ्च नाशुचीराहुतारकाः” याज्ञ॰।
“नैवार्कमोक्षेतेतियद्यपिसामान्येनोक्तं तथापि उदयास्तमयराहुग्रह्स्तोदक-प्रतिबिम्बमध्याह्ववर्त्तिन एवादित्यस्यावेक्षणं निषिध्यते नसर्वदा। यथोक्तं मनुना
“नेक्षेतोद्यन्तमादित्यं नास्तंयान्तं कदाचन। नोपसृष्टं न वारिस्थं न मध्यं नभसोगतम्” इति। उपभोगादन्यत्र नग्नां स्त्रियं नेक्षेत
“ननग्नां स्त्रियमीक्षेतान्यत्र मैथुनात्” इत्याश्वलायनः। संसृष्टमैथुनां कृतोपभोगाम्। उपभोगान्ते अनग्नामपि ने-क्षेत। चकाराद्भोजनादिकर्माचरन्तीम्। तथा चमनुः
“नाश्नीयाद् भार्य्यया सार्द्धं नैनामीक्षेत चाश्न-तीम्। क्षुवन्तीं जृम्भमाणाञ्च न चासीनां यथासुखम्। नाञ्जयन्तीं खके नेत्रे न चाभ्यक्तामनावृताम्। न पश्येत्[Page5359-b+ 38] प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः” इति। मूत्रपुरीषेच न पश्येत्। तथा अशुचिः सन् राहुतारकाश्च नपश्येत्। चकारादुदके स्वप्रतिबिम्बम्।
“न चोदकेनिरीक्षेत स्वरूपमिति धारणा” इति वचनात्” मिता॰।
“अयं मे वज्र इत्येवं सर्वं मन्त्रमुदीरयन्। वर्षत्यप्रावृतोगच्छेत् स्वपेत् प्रत्यकशिरा न च” याज्ञ॰। वर्षति सतिअयं मे वज्रः पाप्मानमपहन्त्विति मन्त्रमुच्चारयन् अप्रा-वृतोऽनाच्छादितो न गच्छेन्न धावेत
“न प्रधार्वच्च वर्ष-तीति” प्रति षेधात्। न च प्रत्यक्शिराः स्वप्यात्। चका-रान्नग्नो न शयीत। एकश्च शून्यगृहे।
“न च नग्नः शयी-तेति”
“नैकः स्वप्यात् शून्यगृहे” इति मनुस्मारणात्” मिता॰
“ष्ठीवनासृक् शवृन्मूत्ररेतांस्यप्सु न निक्षिपेत। पादौप्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत्” याज्ञ॰। ष्ठीवनमुद्गिर-णम्। असृग्रक्तम्। शकृत् पुरीषं शेषं प्रसिद्धम्। एता-न्यासु न निक्षेपेत्। नापः पादेन ताडयेत्। एवन्तुषादी-नपि। यथाह शङ्खः
“तुषकेशकरीषभस्मास्थिश्लेष्म-नखलोमान्यप्सु न निक्षेपेत्। न पादेन पाणिना वाजलमभिहन्यादिति”। अग्नौ च पादौ न प्रतापयेत्। नाप्यग्निं लङ्घयेत्। चकारात् ष्ठीयनानृग्नौ न क्षिपेत्। मुखोपधमनादि चाग्नेर्न कुर्य्यात् तथा च मनुः
“नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम्। ना-मेध्यं प्रक्षपेदग्नौ न च पादौ प्रतापयेत्। न चैनंपादतः कुर्य्यान्न प्राणबाधमाचरेत्” इति मिता॰।
“जलं पि-बेन्नाञ्जलिना न शयानं प्रवोधयेत्। नाक्षैः क्रीडेन्न धर्म-घ्नर्व्याधितैर्वा न संविशेत्” याज्ञ॰।
“जलमञ्जलिना संहताभ्यांपाणिभ्यां न पिवेत्। जलग्रहणं पेयमात्रोपलक्षणम्। विद्यादिभिरात्मनोऽधिकं शयानं न प्रवोधयेत् नोत्थाप-येत्
“श्रेयांसन्न प्रवोधयेदिति” विशेषात्। अक्षादि-भिर्न्न क्रीडेत। धर्मघ्नैः पशुलङ्घनादिभिः कर्मभिर्न्नक्रीडेत्। व्याधितैर्ज्वराद्यभिभूतैरेकत्र न संविशेत् नशयीत” मिता॰।
“विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम्। केशमस्मतुपाङ्गारकपालेषु च संस्थितिम्” याज्ञ॰।
“जन-पदकुलाचारग्रामविरुद्धञ्च कर्म वर्जयेत्। प्रेतधूमं वाहुभ्यांनदीतरणञ्च वर्जयेदिति संबध्यते। वेशादिषु संस्थितिंवर्जयेत्। चकारादस्थिकार्पासामेध्येषु च” मिता॰।
“ना-चक्ष{??}धयन्तीं गां नाद्वारेण विशेत् क्वचित्। न राज्ञःप्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्त्तिनः” याज्ञ॰।
“परस्य क्षी-रादि पिबन्तीं गां परस्मै माचक्षोत न च निवर्चयेत्। [Page5360-a+ 38] अद्वारेण कापथेन क्वचिदपि नगरे ग्रामे मन्दिरे वा नप्रविशेत्। न कृपणस्य शास्त्रातिक्रमकारिणो राज्ञः स-काशात् प्रतिगृह्णीयात्” मिता॰।
“प्रतिग्रहे सूनिचक्रि-ध्वजिवेश्यानराधिपाः। दुष्टा दशगुणं पूर्वात् पूर्वादेते यथा-क्रमम्” याज्ञ॰। प्रतिग्रहेषु साध्येषु सूत्यादयः पञ्च पूर्व-स्मात् पूर्वस्मात् परःपरो दशगुणं दुष्टाः। सूनाप्राणिहिंसासा अस्याऽस्तीति सूनी प्राणिहिंसापरः चक्री तैलिकः। ध्वजी सुराविक्रयी। वेश्या पण्यस्त्री। नराधिपःअनन्तरोक्तः” मिता॰। (
“देवत्विक्स्नातकाचार्य्यराज्ञां छायां परस्त्रियाः। माक्रमेद्रक्तविण्मुत्रष्ठीवनोद्वर्त्तनादि च” याज्ञ॰।
“देवानामृत्विक् स्नातकाचार्य्यराज्ञां परस्त्रियाश्च छायां नाक्रा-मेत् नाधितिष्ठेन्न लङ्घयेद् बुद्धिपूर्वम् यथाह मनुः
“देवतानां गुरो राज्ञः म्नातकाचार्य्ययोरपि। नाक्रा-मेत् कामतश्छायां वभ्रुणो दीक्षितस्य च” इति। वभ्रुणोनकुलवर्णस्य यस्य कस्य चिद्गारन्यस्य वा सोमादेर्वभ्रुणइति नपुंसकलिङ्गनिर्देशात्। रक्तादीनि च नाधिति-ष्ठेत्। आदिग्रहणात् स्नानोदकादेर्ग्रहणम्
“उद्वर्त्तन-मपःस्नानं विण्म्त्रं रक्तमेव च। श्लेष्मनिष्ट्यूतवान्तानिनाधितिष्ठेत कामतः” इति मिता॰।
“विप्राहिक्षत्रि-यात्मानो नावज्ञेयाः कदाचन। आमृत्योः श्रियमाका-ङ्क्षेन्न कञ्चिन्मर्मणि स्पृशेत्” याज्ञ॰।
“विप्रो बहुश्रुतोऽहिःसर्पः क्षत्रिया नृपतिः। एते कदाचिदपि नावमन्तव्याआत्मा च स्वयं नावमन्तव्यः। आमृत्योर्यावज्जीवं श्रिय-मिच्छेन्न कञ्चिन्मर्मणि स्पृशेन्न कस्यचिदपि मर्म दुश्चरितंप्रकाशवेत्” मिता॰।
“दूरादुच्छिष्टविणमुत्रपादाम्भांसि स-सुत्सृजेत्। श्रुतिस्मत्युदितं सम्यक् नित्यमाचारमाचरेत्” याज्ञ॰।
“भोजनाद्युच्छिष्टं विण्मूत्रे पादप्रक्षालनजलञ्चगृहाद् दूरात् समुत्सृजत्। श्रौतं स्मार्त्तं चाचारं नित्यंसम्यगनुतिष्ठेत्” मिता॰।
“गोब्राह्मणानलान्नानि नोच्छिष्टोन पदा स्पृशेत्। न निन्दाताडने कुर्य्यात् पुत्रं शिष्यंच ताडयेत्” याज्ञ॰। गां ब्राह्मणमग्निमन्नमदनीयं विशेषतःपक्वमशुचिर्न स्मृशेत्। पादेन त्वनुच्छिष्टोऽपि
“यदा पुनःप्रमादात् स्पृशति तदाचमनोत्तरकालं मनूक्तं का-र्य्यम्
“स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत्। गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु” इतिएवं प्राणादीनुपस्पृशेत्। कस्यचिदपि निन्दाताडनेन कुर्य्यात्। एतच्चानपकारिणः
“अयुध्यमानस्योत्पाद्य[Page5360-b+ 38] ब्राह्मणस्यासृगन्ततः। दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञ-तया नरः” इति। पुत्रशिष्यौ शिक्षार्थमेव ताडयेत्। चकाराद् दासादीनपि। ताडनञ्च रज्वादिनोत्तमाङ्गव्यतिरेकेण कार्य्यम्
“शिष्यशिष्टिरबधेनाशक्तौ रज्जुयेणुदलाभ्यां तनुभ्यामन्येन घ्नत् राज्ञा शास्यः” इतिगोतमवचनात्।
“पृष्टतस्तु शरीरस्य नोक्तमाङ्गे कथ-ञ्चन” इति मनुवचनात्” मिता॰।
“कर्मणा मनसा वाचायत्नाद्धर्मं समाचरेत्। अस्वर्ग्यं लोकविद्विष्टं धर्ममप्या-चरेन्न तु” याज्ञ॰। कर्मणा कायेन यथाशक्ति धर्ममनुतिष्ठेत्। तमेव मनसा ध्यायेत्। वाचा वदेत्। धर्मं विहितमपिलोकविद्विष्टं लोकाभिशस्तिजनकं मधुपर्के योबवादिकंनाचरेत्। यस्मादस्वर्ग्यमग्नोषोमीयवत् स्वर्गसाधनं न भ-वति” मिता॰।
“मातृपित्रतिथिभ्रातृजामिसम्बन्धिमातुलैः। वृद्धबालातुराचार्य्य वैद्यसंश्रितबान्धवैः। ऋत्विक्पुरोहि-तापत्यभार्य्यादाससनाभिभिः। विवादं वर्जयित्वा तुसर्वां ल्लोकाञ्जयेद् गृही” याज्ञ॰। माता जननी। पिताजनकः। अतिथिरध्वनीनः। भ्रातरो भिन्नोदरा अपि। जामयो विद्यमानभर्त्तृकाः स्त्रियः। सम्बन्धिनो वै-ब ह्याः। मातुलो मातुर्भ्राता। वृद्धः सप्तत्युत्तरव-यस्कः। बालः आषोडशाद्वर्षात्। आतुरो रोगी। आचार्य्य उपनेता। वैद्यो विद्वान् भिषग्वा। संश्रितउपजीवी। बान्धवाः पितृपक्षा मातृपक्षाश्च। मातुलस्यपृथगुपादानम् आदरार्थम्। ऋत्विग्याजकः। पुरोहितःशान्त्यादेः कर्त्ता। अपत्यं पुत्रादि। भार्य्या सहधर्म-चारिणी। दासः कर्मकरः। सनाभयः सोदराः भ्रा-तृभ्यः पृथगुपादनं अजामिभगिनीप्राप्त्यर्थम्। एतै-र्मात्रादिभिः सह वाक्कलहं परित्यज्य सर्वान् प्राजा-पत्यादीन् लोकान् प्राप्नोति”।
“पञ्चपिण्डाननुद्धृत्य नस्नायात् परवारिणि। स्नायान्नदीदेवखातह्रदप्रस्रवणेषुच” याज्ञ॰। परवारिषु परसम्बन्धिषु सर्वस्वत्वोद्देशेन त्यक्तेषुतडागादिषु पञ्चपिण्डिनिनुद्धृत्य न स्नायात्। अनेनात्मी-योत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्धरमन्तरेणापि स्नानमभ्यनु-ज्ञातम्। नद्यादिषु कथं तर्हीत्याह स्नायान्नदीति। साक्षात् परम्परया वा समुद्रगाः स्रवन्त्यो नद्यः। देव-खातं देवनिर्मितं पुष्करादि। उदकप्रवाहाभिघातकृत-ज{??} महानिम्नप्रदेशो ह्रुदः। पर्वताद्युच्चप्रदेशात्प्रस्रुतम् उदकं प्रस्नवणं एतेषु पञ्चपिण्डानुद्धरणेनैवस्नायात्। एतच्च नित्यस्नानविषयम् सति सम्भवे[Page5361-a+ 38]
“{??}दीपु देवखातेषु तडागेषु सरःसु च। स्नानं समाचरे-न्नित्यं गर्त्तप्रस्रवणेषु च” इति नारदस्मरणात्। शौचा। द्यर्थन्तु यथासम्भवं परवारिषु पिण्डानुद्धरणेऽपि सर्वस्यन निषेधः” मिता॰।
“परशय्यासनोद्यानगृहयानानिवर्जयेत्। अदत्तान्यग्निहीनस्य नान्नमद्यादनापदि” याज्ञ॰। शय्या कशिपुः। आसनं पीठादि। उद्यानमाम्रव-णादि। गृहं प्रसिद्धन्। यानं रथादि परसम्बन्धोन्येतान्यदत्तान्यननुज्ञातानि वर्जयेन्नापभुञ्जीतः अभो-ज्यान्नान्याह। अग्निहीनस्येति। श्रौतस्मार्त्ताग्न्यधिकाररहितस्य शूद्रस्य प्रतिलोमजस्य बाधिकारवतोऽप्यग्नि-रहितस्यान्नमनापदि न भुञ्जीत न प्रतिगृह्णायाच्च।
“तस्मात् प्रशस्तानां स्वकर्मणा शुद्धजातीनां ब्राह्मणोभुञ्जीत गृह्णीयांच्चेति” गौतमवचनात्” मिता॰।
“कदर्य्यवद्धचौराणां क्लोवरङ्गावतारिणाम्। वैणाभिशस्तबार्द्धुष्यगणिकागणदोक्षिणाम्” याज्ञ॰। कदर्य्यो लुब्धः
“आत्मानंधर्मकृत्यञ्च पुवदारांश्च पीडयेत्। लोभाद् यः पितरौभृत्यान् स कदव्ये इति स्मृतः” इत्युक्तः। बद्व्हो निगडादिना वाचा सन्निरुद्धश्च। चौरो ब्राह्मणसुवर्णव्य-तिरिक्तपरस्वापहारी। क्लीवो नपुंसकः। रङ्गावतारोनटचारणमल्लादिः। वेणुच्छेदजीवो वैणः। अभिशस्तःपतनीयैः कर्ममिरभियुक्तः। वाद्र्वुष्यो निषिद्धवृद्ध्युप-जीवी। गणिका पण्यस्त्री गणदीक्षी बहुयाजकः। एते-षामन्नं नाश्रीयादित्यनुवर्त्तते” मिता॰।
“चिकित्सकातुरक्रुद्धपु{??}मत्तविद्विषाम्। क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्ट-भोजिनाम्” याज्ञ॰।
“चिकित्सकोभिषग्वृत्त्युपजीवी। आतुरा महारोगोपसृष्टः।
“वातव्याध्यश्मरीकुष्ठमे-होदरभगन्दराः। अर्शांसि ग्रहणोत्यष्टौ महारोगाःपसीर्त्तिताः” इति। क्रुद्धः कुपितः! पुंश्चली व्यभि-चारिणी। मत्तो विद्यादिना गर्वितः। विद्विट् शत्रुः। क्रूरो दृढाभ्यन्तरकोपः। वाक्कायव्यापारेणोद्वेजकःउग्रः। पतितो ब्रह्महादिः। व्रात्यः पतितसावि-त्रीकः। दाम्भिको वञ्चकः। उच्छिष्टभोजी परभुक्तोज्झि-ताशो। एतेषाञ्चिकित्सकादीनामन्नं नाश्नीयात्” मिता॰।
“अवीरा{??}स्यर्णकारस्त्रीजितग्रामयाजिनाम्। शस्त्रविक्रयकर्मारतन्तुवायश्ववृत्तिनाम्” याज्ञ॰।
“अवीरास्त्रो स्व-तन्त्रा व्यभिचारमन्तरेणापि। पतिपुत्ररहितेत्यन्ये। स्वर्णकारः सुवर्णस्य विकारान्तरकृत्। स्त्रीजितः सर्वत्रस्त्रीवशवर्द्धी। ग्रामयाजी ग्रामस्य शान्त्यादिकर्त्ता वहूना-[Page5361-b+ 38] मुपनेता च। शस्त्रविक्रयी शस्त्रविक्रयोपजीवी। कर्मारोलोहकारः तक्षादिश्च। तन्तुवायः सूचीशिल्पोपजीवी। श्वभिर्वृत्तं जीवनमस्यास्तीति श्ववृत्ती। एतेषामन्नं ना-श्नीयात्” मिता॰।
“नृशंसराजरजककृतघ्नवधजोविनाम्। चैलधावसुराजोवसहापपतिवेश्मताम्। पिशुनानृतिनो-श्चैव तथा चाक्रिकवन्दिनाम्। एषामन्नं न भोक्तव्यंसोमविक्रयिणस्तथा” याज्ञ॰।
“नृशंसो निर्दयः। राजाभूपतिः। तत्साहचर्य्यात्पुरोहितश्च। यथाह शङ्खः
“भीतावगीतरुदिताक्रन्दितावघुष्टक्षुधितपरिभुक्तविस्मितो-न्मत्तावधूतराजपुराहितान्नानि वर्जयेत्”। रजको वस्त्रा-दीनां नीलादिरागकारकः। कृतध्न उपकृतस्य हन्ता। बधजीवी प्राणिनां बधेन वर्त्तकः। सुराजीवी मद्यवि-क्रयजीवी। उपपतिर्जारः सहोपपतिना वेश्म यस्यासौसहोपपतिवेश्मा। पिशुनः परदोषस्य ख्यापकः। अ-नृती मिथ्यावादी। चाक्रिकस्तैलिकः। शाकटिकश्चेत्येके
“अभिशस्तपतितचाक्रिकतैलिकः” इति भेदेनाभिधानात्। वन्दिनः स्तावकाः सामविक्रयी सोमलताया विक्रेता। एतेषामन्नं न भोक्तव्यम्। सर्वे चैते कदर्व्यादयो द्विजाएव कदर्य्यत्वादिदोषदुष्टा अभोज्यान्ना इतरेषां प्राप्त्य-भावात् प्राप्तिपूर्वकत्वाच्च प्रतिषेधस्य। अग्निहीनस्य नान्न-मद्यादनापदींत्यत्र शूद्रस्याभोज्यान्नत्वमुक्तम्। तत्र प्रति-प्रसवमाह” मिता॰।
“शूद्रेषु दासगोपालकुलमित्राद्धेसी-रिणः। भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत्” याज्ञ॰।
“दासागर्भदासादयः गोपालो गवां पालकः गवां पाल-नेन यो जीवति। कुलमित्रं पितृपितामहादिक्रमागतः। अर्द्धसीरी हलपर्य्याय सीरापलक्षितकृषिफलभागग्राही। नापितः गृहव्यापारकारयिता नापितश्च। यश्च वाङ्-मनःकायकर्ममिरात्मानं निवेदयति तवाहमिति। एतेदासादयः शूद्राणां मध्ये भोज्यान्नाः। चकारात् कुम्भ-कारश्च।
“गोपनापितकुम्भकारकुलमित्रार्द्धिकनिवेदिता-त्मानो भोज्यान्ना” इति वचनात्। स्नातकश्च त्रिविधः व्रतस्नानतकः विद्यास्नातकः उभय-स्नातकश्चेतिभेदात्। तत्र विहितकालपर्य्यन्तं व्रह्मचर्य्यंकृत्वा वेदमसमाप्यैव व्रतकालोत्तरं कृतसमावर्त्तन आद्यः। विहितकालमध्येऽपि वेदविद्यां लब्ध्वा स्नातो द्वितीयः। विहितकालपर्थ्यन्तं ब्रह्मचर्य्यं कृत्वा वेदमक्षब्ध्वा तंलब्ध्वैव तत्कालोत्तरं कृतस्नानस्तृतीयः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्नातक¦ m. (-कः)
1. An initiated householder, a man of the three first classes, who having completed the term prescribed for his stu- dies becomes a housekeeper: if at the end of this period, he has not acquired a knowledge of the Ve4da, he is called Vrata-sna4taka; if he has acquired that knowledge earlier, he is termed Vidya4- sna4taka, and if he finishes his regular studies at the same time that the period of study expires, he is named Ubhaya-sna4taka.
2. A Bra4hmana who has performed the ceremony of ablution, required to be performed on his finishing his first A4S4HRAMA.
3. A Bra4hman who is a Bhikshu or beggar for any religious object. E. कन् added to the last.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्नातकः [snātakḥ], 1 A Brāhmaṇa who has performed the ceremony of ablution which has to be performed on his finishing his first Āśrama (that of a Brahmachārin); राजस्नातकयोश्चैव स्नातको नृपमानभाक् Ms.2.139.
A Brāhmaṇa just returned from the house of his preceptor and become an initiated householder (गृहस्थ).
A Brāhmaṇa who is a Bhikṣu (beggar of alms) for any religious object; नवैतान् स्नातकान् विद्याद् ब्राह्मणान् धर्म- भिक्षुकान् Ms.11.2.
Any man of the first three classes who is an initiated householder. -Comp. -व्रतम् the vows and duties of a स्नातक.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्नातक m. one who has bathed or performed ablutions( i.e. a Brahman who , after performing the ceremonial lustrations required on his finishing his studentship as a ब्रह्म-चारिन्under a religious teacher , returns home and begins the second period of his life as a गृह-स्थSee. समावर्तन; three kinds of स्नातकs are named , 1. a विद्या-स्न्See. , 2. a व्रत-स्न्[who has completed the vows , such as fasting , continence etc. , without the वेदs] , 3. a विद्या-व्रत-स्न्or उभय-स्न्[who has completed both वेदs and vows] , the last is the highest ; in a wider sense there may be 9 स्नातकs See. Mn. xi , 1 ) S3Br. Gr2S. Gaut. Mn. iii , 4 etc. ( IW. 296 ).
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--eligible for पार्वण s4ra1ddha; feeding one such, better than many a मन्त्रयज्ञ in the श्राद्ध. फलकम्:F2: Br. III. 9. ६८; M. १६. 7.फलकम्:/F ^1 वा. ८६. ६३.
Vedic Index of Names and Subjects
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Snātaka, the designation of the student ‘who has taken the bath,’ marking the termination of his studentship under a religious teacher, occurs in the Śatapatha Brāhmaṇa (xii. 1, 1, 10), and repeatedly in the Sūtras. Cf. Brahmacārin.
==Foot Notes==