सामग्री पर जाएँ

स्नातकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्नातकः, पुं, (स्नात एव । स्ना + “यावादिभ्यः कन् ।” ५ । ४ । २९ । इति स्वार्थे कन् ।) आप्लुतव्रती । इत्यमरः । २ । ७ । ४३ ॥ द्वे समाप्तवेदाध्ययने स्नानशीले स्नातं स्नानं शील- मस्य । स्नातकः विकारसंघेति कः । आप्लुतं स्नानं तत्र व्रती नित्यस्नायी । स्ना प्लुत्यां भावे क्तः आप्लवव्रतीति क्वचित् पाठः । ब्रह्मचर्य्यं त्यक्त्वा यो गृहाश्रमं गतः स स्नातकः । समाप्त- वेदाध्ययनो यः स्नानशीलः आश्रमान्तरं न गतः सौऽपि स्नातकः । स्नातकस्त्रिविधः । ब्रह्मचर्य्या- चरणस्य यः शास्त्रबोधितोऽवधिः । तावद्वेद- मुपास्यासमाप्तवेद एवाश्रमान्तरं गतो यः स व्रतस्नातकः । वेदमधीत्यगुरुसन्निधौ वेदाभ्यासं यः करोति स विद्यास्नातकः । पालितसम्यग्- व्रतः प्राप्तवेदो यो द्वितीयाश्रमं गतः स उभय- स्नातकः । इति टीकान्तरे । इति भरतः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्नातकः [snātakḥ], 1 A Brāhmaṇa who has performed the ceremony of ablution which has to be performed on his finishing his first Āśrama (that of a Brahmachārin); राजस्नातकयोश्चैव स्नातको नृपमानभाक् Ms.2.139.

A Brāhmaṇa just returned from the house of his preceptor and become an initiated householder (गृहस्थ).

A Brāhmaṇa who is a Bhikṣu (beggar of alms) for any religious object; नवैतान् स्नातकान् विद्याद् ब्राह्मणान् धर्म- भिक्षुकान् Ms.11.2.

Any man of the first three classes who is an initiated householder. -Comp. -व्रतम् the vows and duties of a स्नातक.

"https://sa.wiktionary.org/w/index.php?title=स्नातकः&oldid=255396" इत्यस्माद् प्रतिप्राप्तम्