स्नानम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्नानम्, क्ली, (स्ना + ल्युट् ।) मज्जनम् । अव- गाहनम् । तत्पर्य्यायः । आप्लावः २ आप्लवः ३ । इत्यमरः । २ । ६ । १२१ ॥ अभिषेकः ४ इति शब्दरत्नावली ॥ उपस्पर्शनम् ५ सवनम् ६ सर्ज- नम् ७ । इति जटाधरः ॥ तदनुकल्पः सप्त- विधः । मान्त्रम् १ भौमम् २ आग्नेयम् ३ वाय- व्यम् ४ दिव्यम् ५ वारुणम् ६ मानसम् ७ । एतेषां विवरणं पश्चात् स्फुटीभविष्यति ॥ * ॥ अस्य गुणाः । “स्नानं पवित्रमायुष्यं श्रमस्वेदमलापहम् । शरीरबलसन्धानं केश्यमोजस्करं परम् ॥ उष्णाम्बुनाधःकायस्य परिषेको बलावहः । तेनैव तूत्तमाङ्गस्य बलकृत् केशचक्षुषोः ॥ विनिहन्ति शिरः स्नानं तृष्णाताल्वास्यशोष- णम् । मलोष्णपीडकाकण्डं शिरोरोगांश्च पैत्तिकान् ॥ मधुकामलकैः स्नानं पित्तघ्नं तिमिरापहम् । स्नानं वचाघनैरिष्टं श्लेष्मघ्नं तिमिरापहम् ॥ स्नानं कृष्णतिलैश्चापि चक्षुष्यमनिलापहम् । अस्नातस्य शरीरस्य उष्मा सर्व्वाङ्गगोचरः ॥ स्नानेनैकत्वमायाति तेन दीप्यति पावकः । स्नानमर्द्दि तनेत्रास्यकर्णरोगातिसारिषु ॥ आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् । दौर्गर्न्ध्यं गौरवं कण्डूं कच्छुं मलमरोचकम् । स्वेदं वीभत्सतां हन्ति शरीरपरिमार्ज्जनम् ॥” इति राजवल्लभः ॥ * ॥ अथ स्नानविधिः । दक्षः । “चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् । तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले ॥” कुर्य्यादिति शेषः । तथा च । “अस्नात्वा चाप्यहुत्वा च भुङ्क्तेऽदत्त्वा च यो नरः । देवादीनामृणी भूत्वा नरकं प्रतिपद्यते ॥” * ॥ तदा सर्व्ववपुश्च स्यादवगाहनमुच्यते । गोविन्दद्वादशीमाघीवारुण्यर्द्धोदयादिषु । स्नानं यत्तच्च नैमित्तं ग्रहणे चन्द्रसूर्य्ययोः ॥ मैथुने वमने रेतःस्खलने मृतके तथा । विण्मूत्रादिशवस्पर्शे शवानुगमनेऽपि च ॥ निद्रान्ते जातकेनृणामस्पृश्यस्पर्शनादिषु । रजस्वलाचतुर्थाहे यत् स्नानं स्यात्तदाशुचम् ॥ गङ्गादिसर्व्वतीर्थेषु विष्णुपादोदकैस्तथा । यत् स्नानमभिषेकञ्च पुण्यं तत् परिकीर्त्तितम् हेलया श्रद्धया नॄणां भक्त्या यत्नेन नारद । गङ्गाम्भोयष्टिवत्स्नानं महापापादिनाशनम् ॥ गङ्गास्नानं मनुष्याणां सर्व्वकल्मषनाशनम् । स्तम्बवच्चापि काष्ठस्य भवेन्मूषलवत् यदि ॥ स्नानं स्यात् सर्व्वतीर्थेषु नानायज्ञफलप्रदम् । शालग्रामशिलावारि योऽभिषेकं समाचरेत् ॥ अकालमृत्युहरणं सर्व्वव्याधिविनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयेद्यदि यदि सर्व्वमनुष्याणां बाह्यान्तर्मलशोधनम् । तदेव नैर्मलस्नानं शरीराणां भवेत् ध्रुवम् ॥ स्वेदाश्रुमज्जाविण्मूत्रचिकुराः क्षतजा वसा । दूषिका कर्णविट् श्लेष्मा नॄणां बाह्यमलाः स्मृताः मलैस्तु मलिनो देहो नवच्छिद्रैश्च छिद्रितः । स्रवत्यविरतं पूर्णो दिवारात्रौ मलानतः ॥ अद्भिश्च गोमयैश्चापि मलानामपमार्जनम् । सर्व्वत्र क्षालनं कृत्वा सर्व्वात्मप्रयतो मुनिः ॥ अष्टाङ्गयोगाभ्यासैश्च देहप्रक्षालनं ततः । नरोऽम्बुमज्जनं कुर्व्वन् स्नानं भवति नैर्म्मलम् ॥” इति पाद्मे उत्तरखण्डै ११३ अध्यायः ॥ * ॥ किञ्च । “तुलामकरमेषेषु प्रातःस्नानं विधीयते । हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम् ॥ अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनम् । न जीवत्पितृकः कुर्य्यात् कृते च पितृहाभवेत् करेण मार्ज्ज येद्गात्रं स्नानवस्त्रेण वा यदि । शुनास्पृष्टं भवेद्गात्रं पुनः स्नानेन शुध्यति ॥ अप्रक्षाल्य तु पादौ यः स्नात्वा गच्छति मन्दिरम् संवत्सरकृतं पुण्यं तत्क्षणादेव नश्यति ॥ स्नानं रजकतीर्थेषु भोजनं गणिकालये । शयनं पूर्व्वपादे च ब्रह्महत्या दिने दिने ॥” इति कर्म्मलोचनः ॥ अन्यत् मत्स्यसूक्ततन्त्रे ३९ पटले द्रष्टव्यम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्नानम् [snānam], [स्ना-भावे ल्युट्]
Bathing, washing, ablution, immersion in water; ततः प्रविशति स्नानोत्तीर्णः काश्यपः Ś.4; न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः (विभूषयन्ति पुरुषं) Bh. 2.19.
Purification by bathing, any religious or ceremonial ablution.
The ceremony of bathing or anointing an idol.
Anything used in ablution. तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः Me.35.
Cleansing, washing off. -Comp. -अगारम् a bath-room. -कलशः, -कुम्भः a jar containing lustral water. -गृहम् a bathroom; उत्थायावश्यकार्यार्थं ययौ स्नानगृहं नृपः Mb.7.82.7.-तीर्थम् a sacred bathing place. -तृणम् Kuśa-grass.-द्रोणी a bathing tub. -यात्रा the festival held on the full-moon day in the month of Jyeṣṭha. -वस्त्रम् a bathing-garment; सकृत् किं पीडितं स्नानवस्त्रं मुञ्चेत् द्रुतं पयः H.2.14.
विधिः the act of ablution.
the proper manner or rules of ablution. -शाटी bathing drawers.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--bath for purity; worship of the earth as a preliminary; तर्पणम् after the bath; rules for rituals after. M. ch. १०२ (whole).
