सामग्री पर जाएँ

स्नायुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्नायुः, स्त्री, (सा + बाहुलकात् उण् । “आतो- युक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् । इत्युणादिवृत्तौ उज्ज्वलः । १ । १ ।) वायुवाहिनी नाडी । महुर इति ख्याता । इति भरतः ॥ तत्पर्य्यायः । वस्नसा २ इत्यमरः । २ । ६ । ६६ ॥ स्नसा ३ नसा ४ । इति राजनिर्घण्टः ॥ स तु गर्भस्थस्य सप्तभिर्मासैर्भवति । इति मुग्धबोधः ॥ (यथा, याज्ञवल्क्यः । ३ । १०० । “शिराः शतानि सप्तैव नवस्नायुशतानि च ॥” “नवस्नायुशतानि तासां शाखासु षट्शतानि । द्वे शते त्रिंशच्च कोष्ठे । ग्रीवां प्रत्यूर्द्धं सप्ततिः ॥ एकैकस्यान्तु पादाङ्गुल्यां षट्निचितास्तास्त्रिंशत् तावत्य एव तलकूर्च्चगुल्फेषु । तावत्य एव जङ्घायाम् । दशजानुनि । चत्वारिंशदूरौ । दश वङ्क्षणे । शतमध्यर्द्ध्वमेवमेकस्मिन् सक्थ्नि भवन्ति । एतेनेतरसक्थि बाहू च व्याख्यातौ । षष्टिः कट्याम् । अशीतिः पृष्ठे । पार्श्वयोः षष्टिः । उरसि त्रिंशत् ॥ षट्त्रिंशद्ग्रीवायाम् मूर्द्ध्नि चतुस्त्रिंशत् । एवं नव स्नायुशतानि व्याख्यातानि । भवन्ति चात्र । स्नायुश्चतुर्व्विधा विद्यात्तास्तु सर्व्वा निबोध मे । प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च सुषिरास्तथा ॥ प्रतानवत्यः शाखासु सर्व्वसन्धिषु चाप्यथ । वृत्तास्तु कण्डराः सर्व्वा विज्ञेया कुशलैरिह ॥ आमपक्वाशयान्तेषु वस्तौ च शुषिराः खलु । पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ॥ नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता । भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता । एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः ॥ स्नायुभिर्व्वहुभिर्बद्धास्तेनभारसहा नराः नह्यस्थीनि न वा पेश्यो न सिरा न च सन्धयः ॥ व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् । यः स्नायुः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा गूढं स शल्यमाहर्त्तुं देहाच्छक्नोति देहिनाम् ॥” इति सुश्रुते शरीरस्थाने पञ्चमेऽध्याये ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्नायुः [snāyuḥ], [स्नाति शुध्यति दोषो$नया स्ना-उण् Tv.]

A tendon, muscle, sinew; स्वल्पं स्नायुवसावशेषमलिनं निर्मांसमप्यस्थि गोः Bh.2.3.

The string of a bow.

An eruption on the skin of the extremities; also; स्नायुक. -Comp. -अर्मन् n. a kind of disease of the eyes. -बन्धः a bowstring. -मर्मन् the joint of a sinew. -स्पन्दः pulse.

"https://sa.wiktionary.org/w/index.php?title=स्नायुः&oldid=255582" इत्यस्माद् प्रतिप्राप्तम्