सामग्री पर जाएँ

स्नायुरोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्नायुरोग¦ पु॰

६ त॰। स्नायुस्थे रोगभेदे तन्निदानादि भावप्र॰उक्तं यथा
“तत्र स्नायुरोगस्य विप्रकृष्टं सामान्यलक्षणमाह
“शा-खासु कुपितो दाषः शोथं कृत्वा विसर्पवत्। भित्त्वैवतं क्षते तत्र सोष्ममांसं विशोष्य च। कुर्य्यात्तन्तुनिभंसूत्रं तत्पिण्डैस्तक्रसक्तुजैः। शनैः शनैः क्षताद् यातिछेदात्तत्कोपमावहेत्। तत्पाताच्छोथशान्तिः स्यात् पुनःस्थानान्तरे भवेत्। स्नायुरोग इतिख्यातः क्रियोक्तात्रविसर्पवत्। वाह्वोर्यदि प्रमादेन त्रुद्यते जङ्घयोरपि। सङ्कोचं खञ्जताञ्चापि छिन्नो नूनं करोत्यसौ”।

"https://sa.wiktionary.org/w/index.php?title=स्नायुरोग&oldid=255618" इत्यस्माद् प्रतिप्राप्तम्