सामग्री पर जाएँ

स्निग्धः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्निग्धः, पुं, (स्निह्यति स्मेति । स्निह + अकर्म्मक- त्वात् कर्त्तरि क्तः ।) वयस्यः । इत्यमरः । २ । ८ । १२ ॥ रक्तैरण्डः । सरलवृक्षः । इति राज- निर्घण्टः ॥

स्निग्धः, त्रि, (स्निह + क्तः ।) स्नेहयुक्तः । अरूक्षः । (यथा, महाभारते । १ । १५३ । ९ । “अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः देहेषु मज्जषिष्यामि स्निग्धेषु पिशितेषु च ॥”) तत्पर्य्यायः । चिक्कणम् २ मसृणम् ३ । इत्य- मरः । २ । ९ । ४६ ॥ आमृष्टम् ४ चिक्वम् ५ चक्वणम् ६ । इति वैश्यवर्गे शब्दरत्नावली ॥ “स्निग्धन्तु वत्सलो वत्सः स्नेहयुक्तजने भवेत् ।” इति च विशेष्यनिघ्नवर्गे शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=स्निग्धः&oldid=179578" इत्यस्माद् प्रतिप्राप्तम्