स्नेहनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्नेहनम्, क्ली, (स्निह्यत्यनेनेति । स्निह + ल्युट् ।) तैलमर्द्दनम् । तत्पर्य्यायः । स्नेहः २ स्निग्धता ३ म्रक्षणम् ४ म्रक्षः ५ अभ्यङ्गः ६ अभ्यञ्जनम् ७ । इति राजनिर्घण्टः ॥ (स्नेहयतीति । स्निह + णिच् + ल्युः । स्निग्धकारिणि, त्रि । यथा, सुश्रुते । १ । ४५ । “घृतं सौम्यं शीतवीर्य्यं मृदुमधुरमल्पाभिष्यन्दि स्नेहनमिति ॥”)
