स्पन्दः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्पन्दः, पुं, (स्पन्द + घञ् ।) प्रस्फुरणम् । ईषत्- कम्पनम् । यथा, -- “चक्षुःस्पन्दं भुजस्पन्दं तथा दुःस्वप्नदर्शनम् । शत्रूणाञ्च समुत्थानमश्वत्थ शमयाशु मे । अश्वत्थरूपो भगवान् प्रीयतां मे जनार्द्दनः ॥” इति मलमासतत्त्वम् ॥ * ॥ अङ्गविस्फुरणे शुभाशुभफलं यथा, -- मनुरुवाच । “ब्रूहि मे त्वं निमित्तानि अशुभानि शुभानि च । सर्व्वधर्म्मभृतां श्रेष्ठ ! त्वं हि धर्म्मविदुच्यसे ॥ मत्स्य उवाच । अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् । अप्रशस्तं यथा वामे पृष्ठस्य हृदयस्य च ॥ मनुरुवाच । अङ्गानां स्पन्दनञ्चैव शुभाशुभविचेष्टितम् । तन्मे विस्तरतो ब्रूहि येन स्युस्तद्विदो भुवि ॥ मत्स्य उवाच । पृथ्वीलाभो भवेत् मूर्द्ध्नि ललाटे रविनन्दन ! । स्थानं विवृद्धिमायाति भ्रूनसोः प्रियसङ्गमः ॥ भृत्यलब्धिश्चाक्षिदेशे दृगुपान्ते धनागमः । उत्कण्ठोपगमो मध्ये दृष्टं राजन् ! विचक्षणैः ॥ दृग्बन्धने सङ्गरे च जयं शीघ्रमवाप्नुयात् । योषिल्लाभोऽपाङ्गदेशे श्रवणान्ते प्रिया श्रुतिः ॥ नासिकायां प्रीतिसौख्यं प्रियाप्तिरधरोष्ठयोः । कण्ठे तु भोगलाभः स्यात् भोगवृद्धिरथांसयोः ॥ सुहृत्स्नेहश्च बाहुभ्यां हस्ते चैव धनरगमः । पृष्ठे पराजयो योधे जयो वक्षःस्थले भवेत् ॥ कुक्षिभ्यां प्रीतिरुद्दिष्टा स्त्रियाः प्रजननं स्तने । स्थानभ्रंशो नाभिदेशे अन्त्रे चैव धनागमः ॥ जानुसन्धौ परैः सन्धिर्बलवद्भिर्भवेन्नृप ! । दिशैकदेशनाशोऽथ जङ्घाभ्यां रविनन्दन ! ॥ उत्तमं स्थानमाप्नोति पद्भ्यां प्रस्फुरणान्नृप ! । सलाभञ्चाध्वगमनं भवेत् पदतले नृप ! ॥ लाञ्छनं पिटकञ्चैव ज्ञेयं प्रस्फुरणं तथा । विपर्य्ययेन विहितं सर्वं स्त्रीणां विपर्य्ययम् ॥ दक्षिणेऽपि प्रशस्तेऽङ्गे प्रशस्तं स्याद्विशेषतः । अप्रशस्त तथा वामे त्वप्रशस्तं विशेषतः ॥ अतोऽन्यथासिद्धिरजल्पनात्तु फलस्य शस्तस्य च निन्दितस्य । अनिष्टचिह्नीपगमे द्विजानां कार्य्यं सुवर्णेन च तर्पणं स्यात् ॥” इति मात्स्ये यात्रानिमित्तदेहस्पन्दनं नाम २४१ । ३ -- १४ ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्पन्दः [spandḥ], [स्पन्द्-घञ्]
Throbbing, palpitation.
Vibration, tremor, motion; मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन् Bh.3.51.
