सामग्री पर जाएँ

स्पर्श

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्श, क ङ ग्रहणे । श्लेषे । इति कविकल्पद्रुमः ॥ (चुरा०-आत्म०-सक०-सेट् ।) क ङ, स्पर्शयते । इति दुर्गादासः ॥

स्पर्शः, पुं, (स्पृश स्पर्शने, स्पर्श ग्रहणे वा + घञ् ।) रुजा । दानम् । स्पर्शनम् । (यथा, उत्तर- रामचरिते । १ अङ्के । “विनिश्चेतुं शक्यो न सुखमिति वा दुःख- मिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः । तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च संमीलयति च ॥”) स्पर्शकः । सम्परायः । प्रणिधिः । इति मेदिनी ॥ उपतप्ता । इत्यमरः । ३ । २ । १४ ॥ वर्गाक्षरम् । इति हेमचन्द्रः ॥ (यथा, भागवते । २ । ९ । ६ । “स चिन्तयन् द्व्यक्षरमेकदाम्भ- स्युपाशृणोत् द्विर्गदितं वचो विभुः । स्पर्शेषु यत् षोडशमेकविंशं निष्किञ्चनानां नृप ! यद्धनं विदुः ॥”) वायुः । इति केचित् ॥ कामिनां बन्धभेदः । इति शब्दरत्नावली ॥ कादिवर्गपञ्चकम् । यथा, -- “स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः ॥” इति श्रीभागवते ३ स्कन्धे १२ अध्यायः ॥ स्पर्शः कादिवर्गपञ्चकम् । इति तट्टीकायां श्रीधरस्यामी ॥ न्यायमते त्वगिन्द्रियग्राह्मगुण- “अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं पिबेत् प्रातः ब्रह्मकूर्च्चविधिः स्मृतः ॥” तदशक्तौ पुराणैकं दातव्यम् । उच्छिष्टशूद्रादि- स्पर्शे बृहस्पतिः । “शुना चोच्छिष्टया शूद्र्या संस्पृष्टा द्ब्यहमाच- रेत् । अहोरात्रं तृतीयेऽह्नि परतो नक्तमाचरेत् ॥” परतश्चतुर्थदिने स्नानात् पूर्वमिति ज्ञेयम् । इति प्रायश्चित्ततत्त्वम् ॥ मत्स्यसूक्तोक्तास्पृश्य- स्पर्शनप्रायश्चित्तं स्नानशब्दे द्रष्टव्यम् ॥ (त्रि, स्पर्शकः । आनन्दजनकः । यथा, मागवबे । ३ । २१ । ९ । “श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्श पुं।

त्वगिन्द्रियविषयः

समानार्थक:स्पर्श

1।5।7।2।5

मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम्. रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥

पदार्थ-विभागः : , गुणः

स्पर्श पुं।

सन्तप्तः

समानार्थक:स्पर्श,स्प्रष्टृ,उपतप्तृ

3।2।14।2।4

मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ। बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्श¦ ग्रहणे स्तेये च चु॰ आ॰ स{??}॰ सेट्। स्पर्शयते अप स्पर्श त।

स्पर्श¦ पु॰ स्पर्श--स्पृश--वा अच् घञ् वा। न्यावोक्ते

१ त्वगिन्द्रियग्राह्ये गुणभेदे

२ ग्रहणे
“मात्रास्पर्शास्तु कौन्तेयंगीता।

३ रोगे

४ युद्धे

५ गुप्तचरे मेदि॰

६ उपतप्तेअमरः।

७ वायौ पु॰

८ स्पर्शके त्रि॰ मेदि॰। स्मृण-णिच--अच्।

९ दाने मेदि॰ स्पृश्यन्ते वायुनाजिह्वाग्रादय उच्चारणाय घञ्।

१० कादिषु मावसानेषुवर्ग्यवर्णेषु पु॰ कादयोमावसानाः स्पर्शः सि॰ कौ॰।
“स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः। अनुष्णाशीतशीतोष्णभेदात् स त्रिविधो मतः। काठिन्यादिःक्षितावेव नित्यतादि च पूर्ववत्। एतेषां पाकजत्वन्तुक्षितौ नान्यत्र कुत्रचित्। तथापि परमाणौ स्यात् पाकोवैशेषिके नये। नैवयायिकानान्तु नये द्व्यणुकादावपीष्यते”
“स्पर्शस्त्व गन्द्रियग्राह्यस्त्वचः स्यादुपकारकः। अनुष्णा-शीतशीतोष्णमेदात् स{??}त्रिविधो मतः। काठिन्यादिःक्षितावेव नित्यतादि च पूववत्। एतेषां पाकजत्वन्तुक्षितौ नान्यत्र कुत्रचित्। तत्रापि परामाणौ स्यात्पाको वैशेषिके नये। नैयायिकानान्तु नये द्व्यणुकादाव-पीष्यते” भाषा॰।
“उपकारक इति स्पार्शनप्रत्यक्षे स्पर्शःकारणमित्यर्थः। अनुर्ष्णाशीतेति। पृथिव्या वायोश्चस्तर्शोऽनुष्णाशीतः। जलस्य शीतः। तेजस उष्णः। काठिन्येति। कठिनसुकुमारस्पर्शौ पृथिव्या एवेत्यर्थः। कठिनत्वादिकन्तु न संयोगनिष्ठो जातिविशेषः चक्षुर्ग्राह्य-तापत्तेः। पूर्ववदिति। जलतेजोवायुपरमाणूनां स्पर्शानित्याद्यलुकादेस्त्वनित्या इत्यर्थः। एतेषामिति। एतेषांरूपरसगन्धस्पर्शानाम्। नान्यत्रेति। पृथिव्या हि रूप-रसगन्धस्पर्शपरावृत्तिः पावकसंयोगादुपलभ्यते। न हिशतधापि ध्मयमाने जलादौ रूपादिकं परावर्त्तते। नीरे सौरभमौष्णञ्च अन्वयव्यतिरेकाभ्यामौपाधिकमेवेतिनिर्णीयते पवनपृथिव्योः शीतस्पर्शादिवत्। तत्रापि पृ-[Page5367-b+ 38] थिवीष्वपि मध्ये परमाणावेव पाक इति वैशेषिकाषदन्ति। तेषामयमाशयः। अवयविनाऽवष्टब्धेष्ववयविषु पाको नसम्भवति। परन्तु वह्निसंयोगेनावयविषु विनष्टेषु स्वत-न्त्रेषु परमाणुषु पाकः। पुनश्च पक्वपरमाणुसंयोगाद्-द्यणुकादिक्रमेण पुनर्महावयविपर्य्यन्तोत्पत्तिः तेजसा-मतिशयितवेगवशात् पूर्वव्यूहनाशो झटिति व्यूहान्तरो-त्पत्तिश्चेति। अथ द्व्यणुकादिविनाशमारभ्य कतिभिःक्षणैः पुनरुत्पत्त्या रूपादिमद्भवतीति शिष्यबुद्धिर्वैशद्यायप्रक्रिया।
“तत्र संयीगविभागयोरनपेक्षकारणं कर्म” इति वैशेषिकसूत्रम्। स्वोत्तरवृत्तिभावान्तरानपेक्षत्वंतस्यार्थः। अन्यथा कर्मणाऽप्युत्तरसंयोगस्य जनने पूर्वसं-योगनाशापेक्षणादव्याप्तिः स्यादिति। तत्र विभागजविभा-गानङ्गीकारे नव क्षणाः। तदङ्गीकारेऽपि यिभागः कि-ञ्चित्सापेक्षो विभागं जनयेत् निरपेक्षस्य तत्त्वे कर्मत्वंस्यात्। तत्र यदि द्रव्यारम्भकसंयोगविनाशविशिष्टंकालमपेक्ष्य विभागजविभावः स्यात् तदा दश क्षणाः। अथ द्रव्यनाशविशिष्टं कालमवयवं चापेक्ष्य विभागज-विभागः स्यात् तदा एकादश क्षणाः। तथा हि वह्नि-संयोगात् परमाणौ कर्म। ततः परमाण्वन्तरेणविभागः। तत आरम्भकसंयोगनाशः। ततो द्व्यणुक-नाशः

१ । ततः परमाणौ श्यामादिनाशः

२ । ततो रक्ताद्यु-त्पत्तिः

३ । ततो द्रव्यारम्भानुगुणक्रिया

४ । ततो विभागा

५ । ततः पूर्वसंयोगनाशः

६ । तत आरम्भकसंयोगः

७ । ततोद्व्यणुकोत्पत्तिः

८ । ततो रक्ताद्युत्पत्तिः

९ । ननु श्यामा-दिनाशक्षणे रक्तोत्पत्तिक्षणे वा परमाणौ द्रव्यारम्भानुगु-णक्रियाऽस्त्विति चेत्। न। अग्निसंयुक्ते परमाणौ यत्कम तद्विनाशमन्तरेण गुणोत्पत्तिमन्तरेण च तत्र पर-माणौ क्रियान्तराभावात् कर्मवति कर्मानुत्पत्तेः निर्गणेद्रव्ये द्रव्यारम्भानुगुणक्रियानुपपत्तेश्च। तथापि पर-माणौ श्यामादिनिवृत्तिसमकालं रक्ताद्युत्पत्ति स्वादितिचेत् न। पूर्वरूपादिध्वंसस्य रूपान्तरे हेतुत्वात। इति नव क्षणाः। अथः दश क्षणाः। सा च आरम्भक-संयोगविनाशविशिष्टं कालमपेक्ष्य विभागेन विभागस्यजनने पति स्यात्। तथा हि वह्निस योगाद् द्व्यनुका-रम्भके परमाणौ क्रिया। ततो विभागः। ततः आर-म्भकसंयोगनाशः। ततो द्व्यणुकनाशविभागजविभागौ

१ । ततः श्यामनाशपूर्वसंओगनाशौ

२ । ततो रक्तोत्पत्त्यत्तर-संयोगौ

३ । ततो वह्निनोदनजन्यपरमाणुकर्मणो गाशः

४ । [Page5368-a+ 38] ततोऽदृष्टपदात्मसंयोगाद् द्रव्यारम्भानुगुणक्रिया

५ । ततोविभागः

६ । ततः पूर्वसंयोगनाशः

७ । तत आरम्भकसं-योगः

८ । ततो द्व्यणुकोत्पत्तिः

९ । ततो रक्ताद्युत्पत्तिः

१० । अथैकादश क्षणाः। वह्रिसंयोगात् परजाणौ कर्ग। ततोविभागः। ततो द्रव्यारम्भकसंयोगनाशः। ततो द्व्यणु-कनाश

१ विशिष्टं माननपेक्ष्म विभागजविभागः

२ । ततःपूर्वसंयोगमाशः

३ । तत उत्तरसंयोगः

४ । ततः परमाणु-कर्मनाशः

५ । ततोऽदृष्टवदात्मसंयोगादु द्रय्यारम्भानुगुण-क्रिया

६ । ततो विभागः

७ । ततः पूर्वसंयोगनाशः

८ । ततोद्रव्यारम्भकसंयोगः

९ । ततो द्व्यणुकम्

१० । ततो रक्तादि

११ । मध्यमशब्दवदेकस्मादग्नसंयोगान्न रूपनाशरक्तोत्पादौ। तावत्कालमेकस्य ग्नेरस्थिरत्वात्। किञ्च यद्युत्पादकोनाशकस्तदा नष्टे रूपादावग्निनाशे नीरूपश्चिरं परमाणुःस्यात्। नाशकश्चेदुत्पादकस्तदा रक्तोत्पत्तौ तदग्निनारक्तता न स्यात्। एवं परमाण्वन्तरे कर्मचित्वानात् पञ्च-मादिक्षणेऽपि गुणोत्पत्तिः। तथा हि एकतृ परमाणौकर्म। ततो विभागः। तत आरम्भकसंयोगनाश-परमाण्वन्तरकर्मणी। ततस्तु द्व्यणुकनाशः। परमाण्व-न्तरकर्मजश्च विभाग इत्येकः कालः

१ । ततः श्यामादि-ना{??} विभागश्च पृर्वसंयोगनाश इत्येकः कालः

२ । ततो रक्तोत्पत्तिर्द्रव्यारम्भकसंयोगश्चेत्येकः कालः

३ । अथ द्व्यणुकोत्पत्तिः

४ । अथ रक्तोत्पत्तिरिति

५ पञ्चक्षणाः। द्रव्यनाशसंमकालं परमाण्वन्तरे कर्मचिन्तनात्पष्ठे गुणोत्पत्तिः। तथा हि परमाणुकसमा पर-मास्त्वन्तरविभागः। तत आरम्भकसंयननाशः। अथद्व्यणुकनाशप्ररमाण्वन्तरकर्मणी

१ अथ श्यामनाशः पर-म ण्वन्तरकर्मजश्च विभागः

२ । ततो रक्तोत्पत्तिः पर-माण्वन्तरे पूर्व{??}ंयोगनाश{??}

३ । ततः परमाण्वन्तरस-यागः

४ । ततो द्व्यणुकोत्पत्तिः

५ । अथ रक्षत्पत्तिरिति

६ । एवं श्य मनाशक्षणे परमाण्वन्तरे कर्मचिन्तमात् सप्तक्षखाः। रक्तोत्पत्तिसमकालं परमाण्वन्तरे कर्मचिन्तनात् अष्ट क्षणाः” इति। नैयायिकानामिगि। नैया-यिकानां मते द्व्यणुकादौ अवयविन्यपि पाको भवतितेषामयमाशयः। अवयविनां साच्छद्रत्वाद्वह्नेः सूक्ष्मा-वयवैरन्तःप्रविष्टैरवयवेष्ववष्टब्धेब्धपि पाको न विरुध्यते। वैशेषिकमतेऽनन्तावयवतन्नाशकल्पने शौरवान्। इत्थञ्चसीऽयं थट इत्यादिप्रत्यभिज्ञाऽपि सङ्गच्छते। थत्र तुन पत्वभिज्ञा तत्रावयविनाशोऽपि स्वीक्रियते” सुक्त॰[Page5368-b+ 38] स्पर्शस्य बहुप्रकारता भा॰ शा॰

१८

१ अ॰ उक्ता यथा
“वायव्यश्च गुणःस्पर्श स्पर्शस बहुधा स्मृताः। उष्णः

१ शीतः

२ सुखो

३ दुखः

४ स्निग्धो

५ विशद

६ एव च। तथा खरो

७ मृदू

८ रूक्षो

९ लघु

१० र्गुरुतरो

११ ऽपि च”। कठिनस्याप्युपलक्षणमिदं यथोक्तं भा॰ आश्व॰

५० अ॰।
“वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः। रूक्षः

१ शीत

२ स्तथैवोष्णः

३ स्निग्धो

४ विशद

५ खर

६ एव च। कढिन

७ श्चिक्कणः

८ श्लक्ष्णः

९ पिच्छलो

१० दारुणो

११ मृदुः

१२ । एवं द्वादशविस्तारो वायव्या गुण एव च”।

१३ कादिमावसानवर्णानासुत्पादके आभ्यन्तरप्रयत्ने सि॰ कौ॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्श¦ m. (-र्शः)
1. Touch, contact.
2. The thing touching or feeling.
3. Gift, donation.
4. Sickness, disease.
5. Morbid heat.
6. A conso- nant of either of the five first classes of the alphabet.
7. An enemy, a disease, &c., the agent or instrument of pain, trouble, or distress.
8. Air, wind.
9. Sexual union.
10. Collision, conflict, encounter.
11. Contact, (in astronomy.)
12. The quality of tangiti- lity.
13. Feeling, sensation.
14. Anything which touches or comes in contact.
15. A spy. f. (-र्शा) A wanton, an unchaste woman. E. स्पृश् to touch, aff. घञ्; or स्पर्श् to take, &c., अच् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्शः [sparśḥ], 1 [स्पर्श्, स्पृश् वा-घञ्] Touch, contact (in all senses); स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः Bg.5.27; तदिदं स्पर्शक्षमं रत्नम् Ś.1.28;2.7.

Contact (in astr.).

Conflict, encounter.

Feeling, sensation, the sense of touch.

The quality of touch or tangibility, touch, the object or विषय of skin (त्वच्); स्पर्शगुणो वायुः T. S.; स्पर्शनं स्पर्शती स्पर्शान् बुद्धिर्विक्रियते$सकृत् Mb.12.285.2.

That which affects or influences, affection, seizure.

Disease, illness, disorder, distemper.

A consonant of any of the five classes of letters (from क् to म्); कादयो मान्ताः स्पर्शाः; स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः Bhāg.3.12.46.

A gift, donation, presentation.

Air, wind.

The sky.

Sexual union; स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत् Mb.13.12.1.

A secret spy. -र्शा An unchaste woman. -Comp. -अज्ञ a. senseless, insensible. -अनुकल a. pleasant to the touch, cooling. -आनन्दा an apsaras. -इन्द्रियम् the organ or sense of touch. -उदय a. followed by a consonant.-उपलः, -मणिः a kind of jewel considered to be the same as 'philosopher's stone'. ˚मणिप्रभवम् gold; L. D. B.-क्लिष्ट a. painful to the touch. -क्षम a. capable of touch, tangible. -गुण a. having the quality of tangibility (as air); बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः Ms.1.76.-तन्मात्रम् the subtile element of tangibility. -द्वेषः sensitiveness to touch. -यज्ञः an offering consisting in the mere touch of the things offered; स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः Mb.14.92.19. -रसिक a. sensual, lustful. -लज्जा, -संकोचपर्णिका the sensitive plant (Mar. लाजाळू). -वेद्य a. to be apprehended by the sense of touch. -संचारिन् a. contagious, infectious. -स्नानम् ablution at the entrance of a sun or moon into an eclipse. -स्पन्दः, -स्यन्दः a frog.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्पर्श शनetc. See. p.1269.

स्पर्श mfn. touching (in अ-भूतल-स्प्, मनः-स्प्, See. )

स्पर्श m. ( ifc. f( आ). )touch , sense of touch(756605 -तस्ind. e.g. स्पर्श-तः सुखं तत्, " that is pleasant to the touch ") , contact( fig. applied to the beginning of an eclipse or to any astron. contact) Mn. MBh. VarBr2S. etc.

स्पर्श m. (in gram.) collective N. of the twenty-five consonants constituting the five classes from क्to म्(so-called because formed by complete contact of the organs of utterance ; See. स्थानand स्पृष्ट) Pra1t. ChUp. BhP.

स्पर्श m. (in phil. ) the quality of tangibility (which constitutes the skin's विषयSee. ) IW. 68

स्पर्श m. any quality which is perceptible by touching any object( e.g. heat , cold , smoothness , softness etc. ) MBh. etc.

स्पर्श m. feeling , sensation( e.g. सिरः-शूल-स्प्, " sensation of headache ") S3Br. etc.

स्पर्श m. pleasant feeling MBh. v , 1366

स्पर्श m. unpleasant or morbid sensation , illness Pa1n2. 3-3 , 16 Va1rtt. 1 Pat.

स्पर्श m. air , wind L.

स्पर्श m. ( accord. to some) temperature Nya1yad.

स्पर्श m. a kind of sexual union L.

स्पर्श m. a gift , offering(See. काक-स्प्and स्प्-यज्ञbelow)

स्पर्श m. w.r. for स्पश, a spy MBh. S3is3.

स्पर्श f. (a word of unknown meaning) Hariv. 10243.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a तुषित. Br. III. 3. १९; वा. ६६. १८.

"https://sa.wiktionary.org/w/index.php?title=स्पर्श&oldid=505880" इत्यस्माद् प्रतिप्राप्तम्