सामग्री पर जाएँ

स्पृष्टास्पृष्टम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्पृष्टास्पृष्टम्, क्ली, (स्पृष्टेन आ सम्यक् स्पृष्टम् ।) परस्परस्पर्शनम् । यथा, -- “अथ जातिगुणान् वक्ष्ये स्पृष्टास्पृष्टं महेश्वरि ! । अधमैः शिष्टसंस्पर्शे प्रायश्चित्तं यथाविधि ॥ ब्राह्मणरय शवाङ्गञ्च क्षत्त्रियाद्यैः कदाचन । स्पृष्ट्वाचम्य हरिं स्मृत्वा उपवासेन क्षत्त्रियः ॥ व्रतस्थशूद्रस्पर्शेऽपि हरिसंस्मरणे शुचिः । सेवयोपस्पृशेद् यस्तु प्रायश्चित्तं न विद्यते ॥ ब्राह्मणो यस्तु शूद्रस्य सेवयोपस्पृशेत् क्वचित् । स्नात्वाचम्य हरिं स्मृत्वा प्राणायामेन शुध्यति ॥ शूद्रस्तु त्रिविधो ज्ञेयो व्रतस्थश्चोत्तमः स्मृतः । कायस्थः पावको मध्यो भिन्नाचारोऽधमो मतः ॥ उत्तमैर्ब्राह्मणः स्पृष्ट उपस्पृश्य द्विजः शुचिः । अधमः सूर्य्यगामग्निं स्पृष्टः शुध्यति ब्राह्मणः ॥” इति मत्स्यसूक्ते ३९ पटलः ॥

"https://sa.wiktionary.org/w/index.php?title=स्पृष्टास्पृष्टम्&oldid=179681" इत्यस्माद् प्रतिप्राप्तम्