स्प्रष्टा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्प्रष्टा, [ऋ] त्रि, (स्पृशतीति । स्पृश + तृच् ।) उपतापकमात्रम् । इत्यमरः । ३ । २ । १४ ॥ रोगः । इत्येके । इति भरतः ॥ (स्पर्शकः । यथा, महाभारते । १४ । २० । २१ । “घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः । मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः ॥”)
