सामग्री पर जाएँ

स्फाटिकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्फाटिकम्, क्ली, (स्फटिकमेव । स्वार्थे अण् ।) स्फटिकम् । इति शब्दारत्नावली ॥ (यथा, महाभारते । २ । ५५ । १७ । “सहस्रस्तम्भां हेमवैदूर्य्यचित्रां शतद्वारां तोरणस्फाटिकाख्याम् । सभामग्य्रां क्रोशमात्रायतां मे तद्विस्तारामाशु कुर्व्वन्तु युक्ताः ॥” स्फटिकस्येदमिति । स्फटिक + अण् । स्फटिक- सम्बन्धिनि, त्रि । यथा, महाभारते । १ । ६३ । १३ । “देवोपभोग्यं दिव्यञ्च आकाशे स्फाटिकं महत् । आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्फाटिकम्&oldid=179721" इत्यस्माद् प्रतिप्राप्तम्