स्फाय
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्फाय, ई ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् । निष्ठायामनिट् ।) ई, स्फीतः स्फातः । ङ, स्फायते पस्फाये । स्फाय- न्निर्मोकसन्धीति गणकृतानित्यत्वात् । इति रमानाथः । वस्तुतस्तु स्फायते स्फायः पचादि- त्वादन् ततः स इवाचरतोति क्वौ शत्रन्तम् । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्फाय¦ वृद्धौ भ्वा॰ आ॰ अक॰ सेट्। स्फायति अस्फायि-अस्फायिष्ट। निष्ठायामनिट् यलोपे ईत् स्फीतः।