सामग्री पर जाएँ

स्फारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्फारः, पुं, (स्फाय + रक् । यद्वा, स्फुर चलने + घञ् । “स्फुरतिस्फुलत्योर्घञि ।” ६ । १ । ४७ । इति एच आत्वम् ।) विकटः । कनकादेर्व्वद्- वुदः । इति मेदिनी ॥ विपुले, त्रि । इति हेम- चन्द्रः ॥ (यथा साहित्यदर्पणे । ३ । १०१ । “असकृदसकृत् स्फारस्फारैरपाङ्गविलोकितै- स्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्फारः&oldid=179734" इत्यस्माद् प्रतिप्राप्तम्