स्फीतः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्फीतः, त्रि, (स्फाय + क्तः । “स्फायः स्फी निष्ठा- याम् ।” ६ । १ । २२ । इति धातोः स्फी ।) वर्द्धितः । यथा, -- “स्फीतान् जनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्व्वटवाटीश्च वनान्युपवनानि च ॥” इति श्रीभागवते । १ । ६ । ११ ॥ “स्फीतान् समृद्धान् देशान् । तत्र तस्यां दिशि । पुरग्रामव्रजाकरान् तत्र पुराणि राजधान्यः । ग्रामा भृगुप्रोक्ताः । ‘विप्राश्च विप्रभृत्याश्च यत्र चैव वसन्ति ते । स तु ग्राम इति प्रोक्तः शूद्राणां वास एव चेति ॥’ व्रजा गोकुलानि । आकरा रत्नाद्युत्पत्ति- स्थानानि । तान् । खेटाः कर्षकग्रामाः । खर्व्वठाः गिरितटग्रामाः । भृगुप्रोक्ता वा । ‘एकतो यत्र तु ग्रामो नगरं चैकतः स्थितम् । मिश्रन्तु खर्व्वटं नाम नदीगिरिसमाश्रयमिति ॥’ वाट्यः पूगपुष्पवाढ्यस्ताः । वनानि स्वतः सिद्ध- वृक्षाणां समूहाः । उपवनानि रोपितवृक्षाणां समूहाः तानि च ।” इति तट्टीकायां श्रीधर- स्वामी ॥
