सामग्री पर जाएँ

स्फुटः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्फुटः, त्रि, (स्फुटति प्रकाशते इति । स्फुट् + कः ।) व्यक्तः । यथा, रघुः । ३ । ६३ । “अवेहि मां प्रीतमृते तुरङ्गमात् किमिच्छसीति स्फुटमाह वासवः ॥”) प्रफुल्लः । इति मेदिनी ॥ शुक्लः । इत्यजयः ॥ भिन्नः । इति स्फुटधात्वर्थदर्शनात् ॥ * ॥ स्फुट- ग्रहा यथा, -- “स्यात् संस्कृतो मध्यफलेन मध्यो मन्दस्फुटः स्यात् चलकेन्द्रमुक्तम् । विधाय शैघ्र्येण चलेन चैवं खेटस्फुटः स्यादसकृत् फलाभ्याम् ॥” कुजस्य विशेषमाह । “दलीकृताभ्यां प्रथमं फलाभ्यां ततोऽखिलाभ्यामसकृत् कुजस्तु । स्फुटौ रवीन्दू मृदुनैव वेद्यौ शीघ्राख्यतुङ्गस्य तयोरभावात् ॥” इति सिद्धान्तशिरोभणिः ॥

"https://sa.wiktionary.org/w/index.php?title=स्फुटः&oldid=179756" इत्यस्माद् प्रतिप्राप्तम्