स्फुरण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्फुरणम्, क्ली, (स्फुर + ल्युट् ।) किञ्चिच्चलनम् । इति भरतः ॥ तत्पर्य्यायः । स्फरणम् २ । इत्य- मरः । ३ । २ । ९ ॥ स्फुलनम् ३ स्फोरणम् ४ स्फुरः ५ स्फुरणा ६ स्फारणम् ७ । इति तट्टीका ॥ स्फूर्त्तिः । इति शब्दरत्नावली ॥ * ॥ अङ्ग- स्फुरणस्य शुभाशुभफलं यथा, -- “ब्रूमौऽधुनाङ्गस्फुरितस्य सम्यक् प्रत्येकमव्यक्तफलप्रभावम् । सर्व्वत्र यत्रावनते स्वदेहा- दुत्पद्यते कर्म्मविपाकसंवित् ॥ मूर्द्ध्नि स्फुरत्याशु पृथिव्यवाप्तिः स्थानप्रवृद्धिश्च ललाटदेशे । भ्रूघ्राणमध्ये प्रियसङ्गमः स्यात् नासाक्षिमध्ये च सहायलाभः ॥ दृगन्तमध्यस्फुरणेऽर्थलाभोत्- कण्ठौ क्रमाद्विस्फुरिते दृगादौ । जयो दृशाधः स्फुरणे रणः स्यात् प्रियश्रुतिः स्यात् स्फुरिते च कर्णे ॥ योषित्समृद्धिः स्फुरिते च गण्डे घ्राणे तु सौमुख्यमुदौ भवेताम् । भोज्येष्टसङ्गावधरोर्द्ध्वयोश्च स्कन्धे गले भोगविवृद्धिलाभौ ॥ स्पन्दो भुजस्येष्टसमागमाय स्पन्दः करस्य द्रविणाप्तहेतुः । स्पन्दश्च पृष्ठस्य पराजयाय स्पन्दो जयायोरसि मानवानाम् ॥ पार्श्वप्रकम्पे विषयस्य लाभः कटिप्रकम्पे तु बलप्रमोदौ । नाभिप्रकम्पे निजदेशलाभः धनर्द्धिबन्धुश्च भ्रुवि प्रकम्पे ॥ दुःखं धनान्तं हृदयस्य कम्पे स्फिक्पायुकम्पेऽपि च वाहनाप्तिः । वराङ्गकम्पे वरयोषिदाप्ति- र्मष्के सकम्पे तनयस्य जन्म ॥ वस्तौ सकम्पे युवतिप्रवृत्तिः दोषश्च कम्पे पुनरूरुपृष्ठे । उरः पुनः स्यात् सुसहायलाभः स्याज्जानुकम्पे त्वचिरेण सिद्धिः ॥ जङ्घाप्रकम्पे निजदेशनाशः स्थानाप्तिरुष्ट्रश्चरणस्य कम्पे । यात्रा सलाभाङ्घ्रितलप्रकम्पे पुंसां सदा दक्षिणदेहभागे ॥ स्त्रीणाञ्च वामावयवे प्रजातः स्पन्दः फलानि प्रदिशत्यवश्यम् ॥” इति वसन्तराजशाकुने नरेङ्गितेऽङ्गस्फुरण- प्रकरणं चतुर्थम् ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्फुरण नपुं।
स्फुरणम्
समानार्थक:स्फुरण,स्फुरणा
3।2।10।1।3
विधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा। प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे॥
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्फुरण¦ न॰ स्फुर--ल्युट्। ईषत्स्पन्दने अमरः। युच्। तत्रैव स्त्री। अङ्गभेदस्फुरफलमुक्तं यथा
“व्रूमोऽधुनाङ्गस्फुरतस्य सम्यक् प्रत्येकमव्यक्तफलप्रभावम्। सर्वत्र यत्रावगते स्वदेहाद्युत्पद्यते कर्मविपाक-संवित्। मूर्ध्निस्फुरत्याशु पृथिव्यवाप्तिः स्थानप्रवृद्धिश्च[Page5371-a+ 38] ललाटदेशे। भ्रूघ्राणमध्ये प्रियसङ्गमः स्यात नामाक्षि-मध्ये च सहायलाभः। दृगन्तमध्यस्फुरणेऽर्थलाभोत्कण्ठेक्रमाद्विस्फुरिते दृगादौ। जयो दृशाध स्फुरणे रणः स्यात्पियश्रुतिः स्यात् स्फुरिते च कर्णे। योषि{??}समृद्धिःस्फरिते च गण्डे घ्राणे तु सौमुख्यमदौ भवेताम्। भोज्येष्टसङ्गावधरोर्द्धयोश्च स्कन्धे गले भोगविवृद्धिलाभौ। स्पन्दो भुजम्येष्टसमागमाय स्पन्दः करम्य द्रविणाप्तिहेतुः। स्पन्दश्च पृष्ठस्य पराजयाय स्पन्दो जयायोरसि मानवानाम्। पार्श्वप्रकम्पे विषयस्य लाभः कटिप्रकम्बे तुबलप्रमोदौ। नाभिप्रकम्पे निजदेशनाशः धनर्द्धिबन्धश्च भ्रुवि प्रकम्पे। दुखं धनान्तं हृदयस्य कम्पेस्फिक्पायुकम्पेऽपि च वाहनाप्तिः। वरङ्गकम्पेवरयोषिदाप्तिर्मुष्के सकम्पे तनयस्य जन्म। वस्तौ सकम्पे युवतिप्रवृत्तिः दोषश्च कम्पे पुनरूरुष्टष्ठे। उरः-प्रकम्पे सुमहायलाभः स्याज्जानुकम्पे त्वचिरेणसिद्धिः। जङ्घाप्रकम्पे निजदेशनाशः स्थानाप्तिरुच्चा चर-णस्य कम्पे। यात्रा सलाभाऽङ्घ्रितलप्रकम्पे पुंसां सदादक्षिणदेहभागे। स्त्रीणाञ्च वामावयवे प्रजातः। स्पन्दःफलानि प्रदिशत्यवश्यम्” वसन्तराजशाकुने
४ र्थप्र॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्फुरण¦ nf. (-णं-णा)
1. Trembling, throbbing, pulsation.
2. Quivering of the lips, throbbing of the eyes, &c.
3. Expansion of mind.
4. Springing on memory.
5. Springing or breaking forth, starting into view.
6. Flashing, twinkling. E. स्फुर् to shake, aff. ल्युट् or युच्, and the radical vowel unchanged; also स्फोरण n. (-णं)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्फुरणम् [sphuraṇam], [स्फुर्-ल्युट्]
Throbbing, quivering, trembling (in general).
Throbbing or quivering of certain parts of the body (indicating good or bad luck).
Breaking forth, arising, starting into view.
Gleaming, flashing, glittering, shining, twinkling.
Flashing on the mind, crossing the memory.
Expansion, manifestation.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्फुरण mfn. glittering , sparkling VarBr2S.
स्फुरण n. the act of trembling , throbbing , vibration , pulsation (also f( आ). ) Dha1tup. L.
स्फुरण n. quivering or throbbing of parts of the body (as indicating good or bad luck) MW.
स्फुरण n. springing or breaking forth , starting into view , expansion , manifestation Sa1h. BhP. Sarvad.
स्फुरण n. flashing , coruscation , twinkling , glittering Megh. Ma1lati1m.
