सामग्री पर जाएँ

स्फोटः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्फोटः, पुं, (स्फुटतीति । स्फुट + अच् ।) स्फोटकः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । १ । १२ । “स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च वर्द्धते ॥” * ॥ स्फुट + भावे घञ् । विदारणम् । यथा, महा- भारते । ३ । ११ । ५८ । “तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा । शब्दः समभवत् घोरो वेणुस्फोटसमो युधि ॥” स्फुटते व्यज्यते वर्णरिति स्फुटत्यर्थो यस्मादिति वा । स्फुट विकसने + घञ् । शब्दव्यापार- विशेषः । तथा चोक्तम् । “वर्णानां वाचकत्वा- नुपपत्तौ यद्बलादर्थप्रतिपत्तिः स स्फोट इति वर्णातिरिक्तो वर्णाभिव्यङ्ग्योऽर्थप्रत्यायको नित्यः शब्दः स्फोटः ॥” यथा, हरिवंशे भविष्यपर्व्वणि । १६ । ५२ । “अक्षराणामकारस्त्वं स्फोटस्तं वर्णसंश्रयः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्फोटः [sphōṭḥ], [स्फुट् करणे घञ्]

Breaking forth, splitting open, bursting.

Disclosure; as in नर्मस्फोट.

A swelling, boil, tumour; अयमपरो गण्डस्थोपरि स्फोटः Mu. 5.

The idea which bursts out or flashes on the mind when a sound is uttered, the impression produced on the mind at hearing a sound; बुधैर्वैयाकरणैः प्रधान- भूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः K. P.1; also see Sarva. S. (पाणिनीयदर्शन).

The eternal sound recognised by the Mīmāṁsakas; दिशां त्वमवकाशो$सि दिशः खं स्फोट आश्रयः Bhāg.1.85.9; शृणोति य इमं स्फोटं सुपश्रोत्रे च शून्यदृक् 12.6.4. -Comp. -करः, -बीजकः the marking-nut plant.

"https://sa.wiktionary.org/w/index.php?title=स्फोटः&oldid=257493" इत्यस्माद् प्रतिप्राप्तम्