सामग्री पर जाएँ

स्फोटनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्फोटनम्, क्ली, (स्फुट + ल्युट् ।) विदारणम् । इत्यमरटीकायां भरतः । ३ । २ । ५ ॥ (यथा, -- सुश्रुते । ६ । ४२ । “शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः । शूलासक्तस्य लक्ष्यन्ते तस्मात् शूलमिहोच्यते ॥”) प्रकाशनम् । इति स्फुटधात्वर्थदर्शनात् ॥ (शब्दः । यथा, साहित्यदर्पणे । ३ । २३२ । “भ्रूविभङ्गोष्ठनिर्द्दंशबाहुस्फोटनतर्ज्जनाः ॥” स्फोटयतीति । स्फुट + णिच् + ल्युः । भेदके, त्रि ॥ यथा, हरिवंशे । २४७ । १२ । “शतपर्व्वमहारौद्रं स्फोटनं सर्व्वतोमुखम् । प्रगृह्य रुचिरं वज्रं दीप्त रौद्राट्टहासिनम् । दैत्यानयोधयत् सर्व्वान् महेन्द्रः पाकशासनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्फोटनम्&oldid=179812" इत्यस्माद् प्रतिप्राप्तम्