स्मरदशा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्मरदशा, स्त्री, (स्मरस्य दशा ।) कामावस्था । तद्दशविधा यथा, उज्ज्वलनीलमणिः । “नयनप्रीतिः प्रथमं चिन्तासङ्गस्ततोऽथ सङ्कल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः । उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्युरित्याचक्षते ॥”
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्मरदशा¦ स्त्री स्मरकृता दशा। कामिनां स्मरकृतासु अङ्गा-सोष्ठवादिषु दशसु दशासु।
“अङ्गेष्वसौष्ठवं तापः पाण्डुता कृशताऽरुश्चिः। अधृतिःस्यादनालम्बस्तन्मयोन्मादमूर्च्छनाः। मृतिश्चेति क्रमाज्-ज्ञेया दश स्मरदशा इह। असौष्ठवं मलापत्तिस्तापस्तुविरहज्वरः। अरुचिर्वस्तुवैराग्यं सर्वत्रारागिताऽधृतिः। अनालम्बनता चापि शून्यता मनसः स्मृता। तन्मयतत्प्रकाशो हि बाह्याभ्यान्तरतस्तथा। रसविच्छेदहेतु-त्वात् मरणं नैव वर्ण्यते। वर्ण्यतेऽपि यदि प्रत्युज्जीवनंस्याददूरतः” इति सा॰ द॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्मरदशा¦ f. (-शा) State of the body produced by being in love.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्मरदशा/ स्मर--दशा f. state of the body produced by love (ten states are named: joy of the eyes , pensive reflection , desire , sleeplessness , emaciation , indifference to external objects , abandonment of shame , infatuation , fainting away , death) Megh.