स्मितम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्मितम्, क्ली, (स्मि ङ ईषद्धसनम् + क्तः ।) ईष- द्धास्यम् । इत्यमरः । १ । ७ । ३४ ॥ (यथा, महाभारते । १ । १५३ । २२ । “विलज्जमानेव नता दिव्याभरणभूषिता । स्मितपूर्व्वमिदं वाव्यं भीमसेनमथाब्रवीत् ॥” विकसिते, त्रि । इति त्रिकाण्डशेषः ॥ (यथा, माघे । ६ । ५४ । “स्मितसरोरुहनेत्रसरोजला- मतिसिताङ्गविहङ्गहसद्दिवम् ॥”)
