स्मृतिविरुद्धः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्मृतिविरुद्धः, त्रि, (स्मृतेर्व्विरुद्धः ।) धर्म्मशास्त्र- विपरीतः । यथा, कूर्म्मपुराणे हिमालयं प्रति देवीवाक्यम् । “यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विवि- धानि च । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥ करालभैरवञ्चैव यामलं नाम यत् कृतम् । एवमादीनि चान्यानि मोहनार्थानि तानि वै ॥ मया सृष्टानि चान्यानि मोहायैषां भवार्णवे ॥” इति मलमासतत्त्वम् ॥
