स्यन्दनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्यन्दनः, पुं, (स्यन्दते चलतीति । स्यन्द + युच् ।) चक्रयुक्तयुद्धप्रयोजनयानम् । रथ इति ख्यातम् । (यथा, रघुः । १ । ३६ । “स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥”) तिनिशवृक्षः । इत्यमरः । २ । ४ । २६ ॥ वृत्तार्ह- द्विशेषः । इति हेमचन्द्रः ॥ वायुः । इति केचित् ॥ शीघ्रे, त्रि ॥ (स्यन्दके, च त्रि ॥ यथा, कथासरित्सामरे । १०३ । ६२ । “ग्रहैः परिवृतं चन्द्रमवतीर्णमिवाम्बरात् । रूपोपमानमन्येषाममृतस्यन्दनं दृशोः ॥”)
