स्यम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्यम, उ ण श ध्वनने । इति कविकल्पद्रुमः ॥ (तुदा०-पर०-सक०-सेट् क्त्वावेट् ।) अन्तः- स्थादियुक्तः । उ, स्यमित्वा स्यान्त्वा । ण, स्येमतुः सस्यमतुः । श, स्यमती स्यमन्ती । इति दुर्गादासः ॥ स्यम, ञ क वितर्के । इति कविकल्पद्रुमः ॥ (चुरा०- उभ०-सक०-सेट् ।) अन्तःस्थादियुक्तः । अस्य स्वार्थे ञौ ह्रस्वो न स्यात् प्रेरणे ञौ तु स्यादे- वेति प्राञ्चः । स्वमते मनीषादित्वात् सिद्धिः । ञ क, स्यामयति स्यामयते लोकः पुरुषं स्थाणु- त्वेन । इति दुर्गादासः ॥
स्यम, त् क ध्वाने । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा०-पर०-सक०-सेट् ।) अन्तःस्थादियुक्तः । स्यमयति । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्यम¦ ध्वनने भ्वा॰ पर॰ अक॰ सेट् क्ता वेट् फणादि॰। स्यमति अस्यमीत् स्योमतु सस्यमतुः।
स्यम¦ वितर्के चु॰ उ॰ सक॰ सेट्। स्यामयति ते असिस्यमत् त।
स्यम¦ ध्वाने अद॰ चु॰ उभ॰ सक॰ सेट्। स्यमयति असिस्य॰मत् त।
