सामग्री पर जाएँ

स्यमन्तकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्यमन्तकः, पुं, श्रीकृष्णस्य हस्तमणिः । यथा, -- “मणिः स्यमन्तको हस्ते भुजमध्ये तु कौस्तुभः ।” इति हेमचन्द्रः ॥ * ॥ अथ स्यमन्तकोपाख्यानम् । श्रीशुक उवाच । “आसीत् सत्राजितः सूर्य्यो भक्तस्य परमः सखा । प्रीतस्तस्मै मणिं प्रादात् स च तुष्टः स्यमन्तकम् ॥ स तं बिभ्रन्मणिं कण्ठे भ्राजमानो यथा रविः । प्रविष्टो द्वारकां राजंस्तेजसा नोपलक्षितः ॥ तं विलोक्य जना दूरात्तेजसा मुष्णदृष्टयः । दीव्यतेऽक्षैर्भगवते शशंसुः सूर्य्यशङ्किताः ॥ नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर । दामोदरारविन्दाक्ष गोविन्द यदुनन्दन ॥ एष आयाति सविता त्वां दिदृक्षुर्जमत्पते । मुष्णन् गभस्तिचक्रेण नृणां चक्षुंषि तिग्मगुः ॥ नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभाः । ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यजः प्रभो ॥ श्रीशुक उवाच । निशम्य बालवचनं प्रहस्याम्बजलोचनः । प्राह नासा रविर्देवः सत्राजिन्मणिना ज्वलन् ॥ सत्राजित् स्वगृहं श्रौमत् कृतकौतुकमङ्गलम् । प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत् ॥ दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो । दुर्भिक्षमार्य्यरिष्टानि सर्पाधिव्याधयोऽशुभाः ॥ न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्च्चितो मणिः । स याचितो मणिं क्वापि यदुराजाय शौरिणा । नैवार्थकामुकः प्रादात् याच्ञाभङ्गमतर्कयन् ॥ तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम् । प्रसेनो हयमारुह्य मृगयां व्यचरद् वने ॥ प्रसेनं सहयं हत्वा मणिमाच्छिद्य केशरी । गिरिं विशन् जाम्बवता निहतो मणिमिच्छता ॥ सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं गले । अपश्यन् भ्रातरं भ्राता सत्राजित् पर्य्यतप्यत ॥ प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः । भ्राता ममेति तत् श्रुत्वा कर्णे कर्णेऽजपन् जनाः ॥ भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि । मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरैः ॥ हतं प्रसेनमश्वञ्च वीक्ष्य केशरिणा वने । तञ्चाद्रिपृष्ठे निहतमृक्षेण ददृशुर्जनाः ॥ ऋक्षराजविलं भीममन्धेन तमसावृतम् । एको विवेश भगवानवस्थाप्य बहिः प्रजाः ॥ तत्र दृष्ट्वा मणिश्रेष्ठं बालक्रीडनकं कृतम् । हर्त्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके ॥ तमपूब्ब नरं दृष्ट्वा धात्री चुक्रोश भीतवत् । तत् श्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां वरः ॥ स वै भगवता तेन युयुधे स्वामिनात्मनः । आसीत्तदष्टविंशाहमितरेतरमुष्टिभिः ॥ क्षीणसत्त्वः स्विन्नगात्रस्तमाहातीवविस्मितः । जाने त्वां सर्व्वभूतानां प्राण ओजः सहो बलम् । विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् ॥ इति विज्ञातविज्ञानमृक्षराजानमच्युतः । व्याजहार महाराज भगवान् देवकीसुतः ॥ मणिहेतोरिह प्राप्ता वयमृक्षपते विलम् । भिथ्याभिशापं प्रमृजन्नात्मनो मणिनामुना ॥ इत्युक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा अर्हणार्थं स मणिना कृष्णायोपजहार सः ॥ सत्राजितं समाहूय सभायां राजसन्निधौ । प्राप्तिञ्चाख्याय भगवान् मणिं तस्मैन्यवेदयत् ॥ सोऽनुध्यायंस्तदेवाघं बलवद्विग्रहाकुलः । कथं मृजाम्यात्मरजः प्रसीदेद्वाच्युतः कथम् ॥ एवं व्यवसितो बुद्ध्या सत्राजित् स्वसुतां शुभाम् । मणिञ्च स्वयमुद्यम्य कृष्णायोपजहार सः ॥ भगवानाह न मणिं प्रतीच्छामो वयं नृप । तवास्तु देवभक्तस्य वयञ्च फलभागिनः ॥” इति भागवते १० स्कन्धे ५६ अध्यायः ॥ सौरभाद्रीयचतुर्थ्यां चन्द्रदर्शने तदुपाख्यानश्रवण- विधिर्यथा, ब्रह्मपुराणे सिंहार्काधिकारे । “नारायणोऽभिशप्तस्तु निशाकरमरीचिषु । स्थितश्चतुर्थ्यामद्यापि मनुष्यायापतेच्च सः ॥ अतश्चतुर्थ्यां चन्द्रन्तु प्रमादाद्वीक्ष्य मानवः । पठेद्धात्रेयिकावाक्यं प्राङ्मुस्वो वाप्युदङ्मुखः ॥” अभिशप्तः परीवादविषयीभूतः । सोऽभिशापः । धात्रेयिकावाक्यं विष्णुपुराणे । “सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः । सुकुमारक मारोदीस्तव ह्येष स्यमन्तकः ॥” अनेन मन्त्रेणाभिमन्त्रितं जलं पेयम् । आचारात् स्यमन्तकोपाख्यानञ्च श्रोतव्यम् । इति तिथ्यादि- तत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्यमन्तकः [syamantakḥ], A kind of valuable gem (said to yield daily eight loads of gold and to preserve from all kinds of dangers and portents); Bhāg.1.56. (For some account, see the word सत्राजित्).

"https://sa.wiktionary.org/w/index.php?title=स्यमन्तकः&oldid=258659" इत्यस्माद् प्रतिप्राप्तम्