सामग्री पर जाएँ

स्यूतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्यूतः, त्रि, (षिव्यु तन्तुसन्ताने + क्तः । च्छोरि- त्यूट् ।) सूत्रितः । तन्तुसन्ततम् । वोना इति भाषा ॥ तत्पर्य्यायः । ऊतम् २ उतम् ३ । इत्य- मरः ॥ (यथा, महाभारते । ३ । १५७ । ४२ । “वडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः । मत्स्योऽम्भसीव स्यूतास्यः कथमद्य भविष्यसि ॥”)

स्यूतः, पुं, (सिव + क्तः ।) सूत्ररचितभाण्डम् । धोक्डा इति ख्यातम् । तत्पर्य्यायः । प्रसेवः २ । इत्यमरः । २ । ९ । २६ । स्यूनः ३ स्योनः ४ धौतकटः ५ स्योतः ६ । इति भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=स्यूतः&oldid=179939" इत्यस्माद् प्रतिप्राप्तम्