सामग्री पर जाएँ

स्रावः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्रावः, पुं, (स्रु + घञ् ।) स्रवः । इत्यमरटीकायां भरतः । ३ । २ । ९ ॥ (यथा, महाभारते । ९ । १७ । ७९ । “ततो महूर्त्तात् तेऽपश्यन् रजो भौमं समु- त्थितम् । विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ॥” नेत्ररोगान्तर्गतसन्धिगतरोगविशेषो यथा, -- “गत्वा सन्धीनस्रुमार्गेण दोषाः कुर्य्यः स्रावान् रुग्विहीनान् स्वलिङ्गान् । तान् वै स्रावान् नेत्रनाडी मथैके तस्या लिङ्गं कीर्त्तयिष्ये चतुर्धा ॥ पाकः सन्धौ संस्रवेद्यश्च पूयं पूयास्रावो नैकरूपः प्रदिष्टः । श्वेतं सान्द्रं पिच्छिलं यः स्रवेच्च श्लेष्मास्रावो नीरुजः स प्रदिष्टः ॥ रक्तास्रावः शौणितोत्थः सरक्तं कोष्णं नाल्पं संस्रवेन्नातिसान्द्रम् । पीताभासं नीलमुष्णं जलाभं पित्तस्रावं संस्रवेत्सन्धिमध्यात् ॥” इत्युत्तरतन्त्रे द्वितीयेऽध्याये सुश्रुतेनोक्तम् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्रावः [srāvḥ], 1 Flow, flowing, oozing, dropping.

"https://sa.wiktionary.org/w/index.php?title=स्रावः&oldid=259109" इत्यस्माद् प्रतिप्राप्तम्