सामग्री पर जाएँ

स्रुग्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्रुग् स्त्री, (स्रवति घृतादिकमस्या इति । स्रु श्रुतौ + “चिक्च ।” उणा ० २ । ६२ । इति चिक् ।) यज्ञपात्र- विशेषः । यथा, -- “ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः ॥” इत्यमरः । २ । ७ । २५ ॥ ध्रुवा वटपत्राकृतिः । उपभृच्चक्राकारा । जुहूः अर्द्धचन्द्राकृतिः । “वैकङ्कती ध्रुवा प्रोक्ता आश्वत्थी चोपभृन्मता । जुहूः पलाशकाष्ठस्य खदिरस्य स्रुवो मतः ॥” इति भरतः ॥ “स्रुवादिकन्तु यज्ञादौ पात्रमित्यभिधीयते । स्रुवः पुमानेकहस्तो बाहुमात्रा स्रुगीरिता । तद्विशेषाः शरावाग्राः स्त्री जुहूरुपभृत् ध्रुवा ॥” इति शब्दरत्नावली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्रुग् in comp. for स्रुच्.

"https://sa.wiktionary.org/w/index.php?title=स्रुग्&oldid=259196" इत्यस्माद् प्रतिप्राप्तम्