स्रोतः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्रोतः, [स्] क्ली, (स्रवतीति । स्रु गतौ + “स्रुरीभ्यां तुट् च ।” उणा० ४ । २०१ । इति असुन् । तुट् च ।) स्वतोऽम्बुसरणम् । इत्यमरः । १ । १० । ११ ॥ वेगेन जलवहनं स्रोतः । स्वतः स्वयमम्बुनः सरणं गमनं स्रोतः इत्यन्वयः । स्वत इत्यात्महेतुकं न परहेतुकम् । तस् क्तेरिति तृतीयायास्तस् स्रवति स्रोतः स्रुद्रुवत् त्रासुसिति अस् निपातनात्तन् स्रोतः सान्तम् । स्रोतः सद्यः सकलसलिलं सिंहकं सक्वमूलम् । इति दन्त्या- दावुष्मभेदः । स्रोतमदन्तञ्च । स्रोतः स्रोतं महा- नदः स्रवः पैञ्चषमस्त्रियाम् । इति हडडचन्द्रः । इत्यमरटीकायां भरतः ॥ (यथा, आर्य्या- सप्तशत्याम् । ४९१ । “रुद्धस्वरसप्रसरस्यालिभिरग्रे नतं प्रियं प्रति मे । स्रोतस इव निम्नं प्रतिरागस्य द्विगुण आवेगः”) नदी । यथा, गीतायाम् । १० । ३१ । “झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥” शरीरस्थनवच्छिद्राणि । (मनःप्राणान्नपाणी- यादिव हशरीरस्थासंख्यमार्गविशेषः । इति भाव- प्रकाशादयः ॥) यथा, -- “स्रोतांसि खानि छिद्राणि कालखण्डं यकृन्मतम् ॥” इति राजनिर्घण्टः ॥ (“यावन्तः पुरुषे मूर्त्तिमन्तो भावविशेषास्तावन्त- एवास्मिन् स्रोतसां प्रकारविशेषा सर्व्वभावा हि पुरुषेणान्तरेण स्रोतांस्यभिनिर्व्वर्न्तन्ते क्षयं वा न गच्छन्ति । स्रोतांसि खलु परिणाममापद्य- मानानां धातूनामभिवाहीनि भवन्ति अयनार्थे- नांपि चैके स्रोतसामेव समुदायं पुरुषमिच्छन्ति सर्व्वगतत्वात् सर्व्वसरत्वाच्च दोषप्रकोपप्रशमा- नानां नत्वेतदेवं यस्य सहि स्रोतांसि यच्च वहन्ति यच्चावहन्ति यत्र चावस्थितानि सर्व्वं तदन्य- त्तेभ्यः । अतिबहुत्वात्तु खलु केचिदपरिसङ्ख्ये- यानि आचक्षन्ते स्रोतांसि परिसङ्ख्येयानि पुन- रन्ये तेषां स्रोतसां यथास्थलं कतिचित् प्रकारान् मूलतश्च प्रकोपपरिज्ञानतश्चानुव्याख्यास्यामः ये भविष्यन्त्यलमनुक्तार्थज्ञानवते विज्ञानाय चाज्ञानाय तद्यथा प्राणोदकान्नरसरुधिर- मांसमेदोऽस्थि-मज्जाशुक्र-मूत्रपुरीषस्वेदवहानि वातपित्तश्लेष्मणां पुनः सर्व्वशरीरचराणां सर्व्व- स्रोतांसि अयनभूतानि । तद्वदतीन्द्रियाणां पुनः सत्त्वादीनां केवलं चेतनावत् शरीरमयन- भूतमधिष्ठावभूतञ्च तदेतत् स्रोतसां प्रकृति- भूतत्वात् न विकारैरुपसृज्यते शरीरम् ।” इति चरके विमानस्थाने पञ्चमाध्वाये ॥)
