सामग्री पर जाएँ

स्रोतोञ्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्रोतोञ्जनम्, क्ली, (स्रोतोभवमञ्जनम्) यमुना- स्रोतोभवाञ्जनम् । तत्पर्य्यायः । सौवीरम् २ कापोताञ्जनम् ३ यामुनम् ४ इत्यमरः । २ । ९ । १०० ॥ अञ्ज्यते नयनमनेन चक्षुष्यत्वादञ्जनं अनट् । यमुनायाः स्रोतोभवत्वात् स्रोतसो- ऽञ्जनं स्रोतोञ्जनम् । सुवीरदेशे भवं सौवौरं ष्णः । स्रोतोञ्जनाद्विलक्षणं सौवीरमिति ख्यातम् । अदूरभवत्वाद्भेदेऽपि एकत्वोपनिबन्धनमिति सुभूतिः । कपोतस्यायं कापोतो वर्णः तद्युक्त- मञ्जनं कापोताञ्जनम् । कापोतवर्णमञ्जनं कापोताञ्जनमिति स्वामी । यमुनायां भवं यामुनं ष्णः । इति तट्टीकायां भरतः ॥ * ॥ अपरञ्च । “स्रोतोञ्जनं नदीजञ्च कृष्णं श्वेतञ्च लोहितम् ॥” इति रत्नमाला ॥ तत्पर्य्यायान्तरं यथा । वारिभवम् ५ स्रोतोभवम् ६ स्रोतनदीभवम् ७ सौवीरसारम् ८ कपोत- सारम् ९ वल्मीकशीर्षम् १० । अस्य गुणाः । शीतत्वम् । कटुत्वम् । कषायत्वम् । क्रमिनाशि- त्वम् । रसायनत्वम् । रसे योग्यत्वम् । स्तनवृद्धि- करत्वञ्च । तस्य लक्षणं यथा, -- “बल्मीकशिखराकारं भिन्नं नीलाञ्जनप्रभम् । घृष्टे च गैरिकावर्णं श्रेष्ठं स्रोतोञ्जनञ्च तत् ॥” इति राजनिर्घण्टः ॥ अपि च । “स्रोतोञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भवम् । दृष्टे कण्डूमलहरं दाहक्लेदरुजापहम् ॥ अक्ष्णो रूपावहञ्चैव सहते मारुतातपौ । नेत्ररोगा न जायन्ते तस्मादञ्जनमाचरेत् ॥” स्रोतोऽञ्जनं कृष्ण सुरमा इति । शोधनं विनापि सिन्धुनामपर्व्वतस्तत्र भवम् । इति । अथ सुरमा सौवीर । “अञ्जनं यामुनञ्चापि कापोताञ्जनमित्यपि । तत्र स्रोतोञ्जनं कृष्णं सौवीरं श्वेतमीरितम् ॥ स्रोतोञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम् । स्रोतोञ्जनं स्मृतं स्वादु चक्षुष्यं कफपित्तनुत् ॥ कषायं लेखनं स्निग्धं ग्राहि छर्द्दिविषापहम् । सिध्मक्षयास्रहृच्छीतं सेवनीयं सदा बुधैः ॥ स्रोतोञ्जनगुणाः सर्व्वे सौवीरेऽपि मता बुधैः । किन्तु द्वयोरञ्जनयोः श्रेष्ठं स्रोतोञ्जनं स्मृतम् ॥” इति च भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्रोतोञ्जन नपुं।

सौवीराञ्जनम्

समानार्थक:स्रोतोञ्जन,सौवीर,कापोताञ्जन,यामुन

2।9।100।2।1

गवलं माहिषं शृङ्गमभ्रकं गिरिजामले। स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्रोतोऽञ्जन¦ न॰ स्रोतसि यमुंनास्रोतो जलसन्निकृष्टसौवीरदेशेभवम् अञ्जनम्। सौवीरदेशजेऽञ्जने अमरः।
“वल्मीकशिखराकारं भिन्नं नीलाञ्जनप्रभम्। घृष्टेच गैरिकावर्णं श्रेष्ठं स्रोतोऽञ्चनञ्च तत्” राजनि॰।
“स्रोतोऽञ्जनं तत्र श्रेष्ठं विशुद्धं सिन्धुसम्भवम्। दृष्टेःकण्डूमलहरं दाहक्लेदरुजापहम्। अक्ष्णो रूपावह-ञ्चैव सहते मारुतातपौ। नेत्ररोगा न जायन्ते तस्मा-दञ्जनमाचरेत्”।
“अञ्जनं यामुनञ्चापि कापोताञ्जन-मित्यपि। तत्र स्रोतोऽञ्जनं कृष्णं सौवीरं श्वेतमीरि-तम्। स्रोतोऽञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डरम्। स्रोतोऽञ्जनं भवेत् स्वादु चक्षुष्यं कफपित्तनुत्। कषायंलेखनं स्निग्धं ग्राहि च्छर्दिविषापहम्। सिध्मक्षयास्रहृत्-शीतं सेवनीयं सदा बुधैः। सौतोऽञ्जनगुणाः सर्वे सौवी-रेऽपि मता बुधैः। किन्तु द्वयोरञ्जनयोः श्रेष्ठं स्रोतो-ऽञ्जनं स्मृतम्” भावप्र॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्रोतोञ्जन/ स्रोतो--ऽञ्जन n. " stream-collyrium " , antimony ( esp. as a collyrium for the eyes , said to be produced in the river यमुना) L.

"https://sa.wiktionary.org/w/index.php?title=स्रोतोञ्जन&oldid=259397" इत्यस्माद् प्रतिप्राप्तम्