सामग्री पर जाएँ

स्वच्छः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वच्छः, त्रि, (सुष्ठु अच्छः ।) रोगविमुक्तः । इति शब्दरत्नावली ॥ शुक्लः । निर्म्मलः । इति केचित् ॥ (यथा, महानिर्व्वाणतन्त्रे । ८ । ९१ । “असनं वसनं पात्रं शय्या यानं निकेतनम् । गृह्यकं वस्तुजातञ्च स्वच्छात् स्वच्छं प्रशस्यते ॥” कपटतादिदोषशून्यः । यथा, तत्रैव । ८ । ५२ । “स्वच्छो नम्रः शुचिर्द्दक्षो युक्तः स्यात् सर्व्व- कर्म्मसु ॥”)

स्वच्छः, पुं, (सुष्ठ अच्छः निर्म्मलः ।) स्फटिकः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=स्वच्छः&oldid=180059" इत्यस्माद् प्रतिप्राप्तम्