सामग्री पर जाएँ

स्वत्वम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वत्वम्, क्ली, (स्वस्य भावः । स्व + त्व ।) शास्त्र- सम्मतयथेष्टविनियोगार्हत्वम् । सप्तपदार्थाति- रिक्तपदार्थः । निरूपकतासम्बन्धेन स्वामित्वम् । यथा । स्वत्वञ्च यथेष्टविनियोगार्हत्वेन शास्त्र- बोधितत्वमिति प्राञ्चः ॥ अतिरिक्तपदार्थ इति शिरोमणिः ॥ स्वामित्वञ्च तन्निरूपकत्वम् । निरूपकतया तदेव वा । तच्च द्रव्यगतं गुण- गतञ्च द्रव्यस्य दानादिश्रुतेः । नीलं बा वृषमुत्- सृजेदित्यादौ लौहित्यादिगुणविशिष्टपारिमा- षिकनीलवृषोत्सर्गश्रुतेश्च । वस्तुतस्तु आत्म- समवेतं स्वामित्वमेवातिरिक्तपदार्थः । विक्रय- दानादीनां तन्नाशकत्वे क्रयप्रतिग्रदादीनाञ्च तद्धेतुत्वे सम्बन्धलाघवसम्भवात् तदेव निरूप- कतया स्वत्वव्यवहारहेतुः । अतएव निबन्धादौ भाविन्यपि स्वत्वमिति । अन्यथा प्रतिमासं प्रति- वर्षंवा देयत्वेन प्रतिश्रुतधाम्यादिरूपस्य भावित्वे तत्र तदुत्पत्त्यनुपपत्तेरिति चूडामणिसम्मतो लीलावतीरहस्यपन्थाः सम्नीचीनः । तत्र स्वत्व- धारावारणाय सजातीयस्वत्वं प्रतिस्वत्वं विरोधि सजातीयमिति करणात् पराजितनृपतिराज्या- न्तर्व्वर्त्तितत्तत्पुरुषीयक्र मागतस्थावरादौ जया- दिना जेतुर्नृपतेः करग्रहणोपयोगिस्वत्वोत्पादे तथा क्रीते अतिगृहीतराज्यान्तर्व्वर्त्तिनि तादृश- स्थावरादौ च क्रेत्रादेः क्रयाद्यधीनस्वत्वोत्- पादेऽपि न व्यभिचार इति संक्षेपः । इति दायभागटीकायां श्रीकृष्णतर्कालङ्कारः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वत्वम् [svatvam], 1 Self-existence.

Ownership, proprietory right. -Comp. -निवृत्तिः, -हानिः loss of proprietory right. -बोधनम् proof of ownership. -हेतुः cause of proprietory right.

"https://sa.wiktionary.org/w/index.php?title=स्वत्वम्&oldid=260010" इत्यस्माद् प्रतिप्राप्तम्